________________ // 8 // बाह्याभ्यन्तरषट्करूपतपसो विज्ञात्प्रणश्येन्मनेर्दारियं भवकाननभ्रमण प्रादुर्भवेत्सन्निधिः। शीलं संयममन्दिरं च युवतिर्नीरागता सम्भवेत्, पुत्रः केवलसंज्ञको भुवि ततो भाग्याद्भुतो जायते कुसुमविशिखो यस्माद्भस्मावशेषतनुर्भवे, दिव विधुभृतः पद्मा सद्मागतैव हरेर्यथा। वसति च मुखे वाणी पाणीकृतेव गृहेऽर्थता, करणकरिणां घाते तप्तं तपो हरिसन्निभम् // 81 // षष्ठो यतिधर्मः क्षोणीपानीयतेजोमरुदगविकलाऽजीवपञ्चेन्द्रियेषु, प्रेक्षोपेक्षामनोवाकरणगृहरजोमार्जनोत्सर्जनेषु / यः कर्मानाश्रवश्चेद्वरविरतिमतां संयमो मोक्षमार्गस्तद्धर्मे सोद्यमस्त्वं भव च जिगमिषुर्निर्वृतौ शर्मभाजि // 82 // प्राणातिपातानृतचौर्यरामा-परिग्रहाक्षस्य कषायकस्य / योगत्रिकस्यैव निरोधरूपो, यः संयमः सङ्गमकृत्स सिद्धेः / / 83 // दास्यं लास्यति तस्य वासववधूश्चक्री चकारार्चनां, हास्यं मुञ्चति सङ्गतिं सुभगता कण्ठं समालिङ्गति / कीर्तिश्रीः प्रददाति दक्षिणकरं चास्ते मुखे भारती, यस्मिन्संयमभूपतिर्निविशते प्रोन्मूलितारिखजः संयमः समतयाञ्चितदेहो, लेह एव सुकृतान्तसुधायाः। शीलधामहतकामतमिस्रो, भूतले विजयते परचंन्द्रः . // 85 // // 84 // 1es.