________________ पूजन्ति देवांस्तु वपन्ति वित्तं, सत्सु व्रतं चाददते तपन्ति। तपस्त्यजन्ति प्रमदाविवर्ग, मायां न मुञ्चन्ति वृथेति सर्वम् // 73 // चतुर्थो यतिधर्मः धर्मस्तु दुर्लभतरो दिवि मुक्तिनामा, सर्वेषु वस्तुषु निरीहतया मुनीनाम्। सम्पद्यते तनुमनोवचसां समाधिकृज्जन्मजातिमरणान्तक एव सेव्यः 74 निमग्ना लोभाब्धौ प्रचुरधनतृष्णाघनशिलाः प्रविष्टा ये मा बहुदुरितवार्याधिमकरे / स वाधिस्तीर्येतैव कथमपि मुक्तिप्रवहणं, समारुह्येताशु व्रतधरवरैर्यैर्मतिधनैः लुब्धो नरः प्राणधरः परासुश्चिन्ताचितायां शयितस्सदा तत् / यो मुक्तिधर्मं च दधाति चित्ते, मुक्ति विना मुक्तक एव जीवन् // 76 // प्रौद्यत्प्रौढप्रतापः प्रणतगजघटाकुम्भमुक्तक्रमाब्जश्चञ्चज्ज्योत्स्नेन्दुकी[ज्ज्वलितसुरनदीतारमुक्तासमूहः / स्वर्गस्त्रीप्राणनाथेश्वरमुकुटमणिकान्तदीप्तिप्रकर्षस्तेजस्वी निःस्पृहोऽयं विचरति जगति द्वादशात्मप्रभाजित् // 77 // // 75 // पञ्चमो यतिधर्मः शुष्कं वनं पल्लवितं तु शत्रुः, सुहृत्कृशानुः सलिलं भुजङ्गः / स्रगर्णवो निर्जलभूमिदेशस्तपःप्रभावाच्च भवेज्जगत्याम् // 78 // तपोनामा धर्मः समुचितफलं यच्छति यतेगुणाकर्षी वर्षी प्रशमपयसां कर्मदहनः / क्षमायुक्तो मुक्ते रथ इव पथः शीघ्रगमनः, प्रयत्न रत्ने सन्महसि तपसीतः सृजतराम् // 79 // 105