________________ द्वितीय यतिधर्मः . मार्दवं भवति माननिरासाद्यस्य याति स च देवगुरूणाम् / नम्रतां श्रुतसमुद्रविगाही, पूज्य एव जगतां मुनिरेषः // 66 // महामानाद्रिः स्याद्वहति खलतावाधिवनिता, कुबोधः कीनाशो वसति गुरुदोषोद्धटनता / दरी ध्वान्ता यत्रावगुणचरटाः सन्ति बहवः, कदा तं मा रोहीर्भज जनहितं मार्दवगुणम् . // 67 // गर्वोत्कर्षी वहति वहनं व्योममुक्ताक्षियुग्मं, गच्छन् भूमि रहितवचनः पश्यति प्रोद्धतो नो / तन्मन्येऽहं नरकगमनागीतचित्तस्त्वसौ कि ?, सोऽयं धन्यो निहितयुगदृग्यो व्रजेन्मार्दवाढ्यः // 68 // निर्गस्त्रिजगति यः स पूजनीयो, गर्विष्ठः स्वपरकृतान्तवेदिवर्यः / तद्वश्याः सुरपतयश्च सार्वभौमाः, स्वर्हस्तेऽमृतमपि तस्य भावि लभ्यम् - तृतीयो यतिधर्मः चारित्रार्यमरोधनेऽम्रपटली सत्सङ्गसंछेदने स्फूर्जत्खगलताञ्चितां गुणमृतौ संसारवार्डो नदीम् / . मायां सिद्धिनिषेधिनीं त्यज मुने ! व्याघ्रीमिवाध्वस्थितां, मुक्तौ गन्तुमना भवान्यदि तदा निर्व्याजता भज्यताम् // 70 // नरकपूर्गमने बत गोपुरं, त्रिदिवमार्गविघातभुजङ्गमम् / सकलदोषमतङ्गजविन्ध्यभूः, परिहर त्वमतः किल कैतवम्।। 71 // माया मण्डनमेव मोहनृपतेः संसारवृक्षाम्बुदो, रात्रिः सत्यरवेविनाशकरणे मिथ्यात्वकेलिगृहम् / विश्वासेन्दुविनिग्रहेऽपि तमसस्तुण्डद्युतिः खानिकां, दोषाणां वरसाधुभिः परिहता यैस्तैः प्रलब्धं शिवम् . // 72 / / 124