________________ मुनिपतिमुखशैलादुद्गतो धर्मसूर्यो, नयवचनकरैर्यो गाढमिथ्यातमिस्रम् / विषयमतिजडत्वं नाशयन् भव्यजन्तुप्रकरकमलखण्डं शोभयंस्तं भजध्वम् // 59 // धर्मः प्रभूक्तो द्विविधोऽणुसर्वव्रतात्मकः कर्मनिघातकश्च / श्राद्धस्य साधोर्हदि भावनीयः, प्राणिस्त्वया दुर्लभ एव योगः॥ 60 // धर्मं चेतसि रक्ष रक्षितजगद्रे मूढ ! कि प्रोच्यते, कालोऽनादिरभूत्तवैव न कदा कुत्रापि लब्धा त्वया / सामग्री गुरुदेवधर्ममतिकृत्संसारसंहारिणी, तद्भाव्या हि पुनः पुनस्तु विजने गत्वातिसद्भावनाः // 61 // . प्रथमो यतिधर्मः शिवपुरगतौ गन्त्री तन्त्रीमती मृदुभाषणे, स्वगुणरमणे रामा वामा विशारदचातुरी / भवजलनिधेरस्तेऽगस्तेर्महागलनालिका, भवति जगति शान्तिः शान्तिङ्करी व्रतिनां सदा / // 62 // क्षमागुणः साधुगणस्य मञ्जुलो, महाव्रतं क्रोधजयाय जायते। गुणा विना तं निखिला हि निष्फला, यथैककाङ्कं लिखितास्तु बिन्दवः // 63 // क्रोधाग्निर्द्वन्द्वधूमो धवलशमगृहश्यामकारी प्रवृद्धः, स्वान्तध्वान्तप्रवृत्तिः प्रबलशुभमनोभाववृक्षप्रदाही / उद्गच्छत्प्रौढनिन्दाकुवचननिकराचिर्भवेद्यः क्षमाम्भोधाराभिस्तं विधेहि स्वपरहितकरं चारुनिर्वाणरूपम् यः क्षमासुयुवति रुचिराङ्गीमुद्वहेत्प्रणिपतन्ति सुरास्तम् / निर्वृति: करगता किल तस्य, स्वर्गवाससुखसम्पदयत्ना // 65 // // 64 //