________________ लोकं भावय चेतसा स्थितकटीनिर्मुक्तहस्तद्वयीमानुष्योपममेव धर्मगगनाधर्मप्रदेशान्वितम् / जीवानन्तनिगोदवासनिलयं भूनीरतेजोवृतं, पूर्णं वायुनिकायिकक्षितिरुहैर्देवैनरैर्नारकैः // 51 // द्रव्यतोऽन्तसहितः खलु लोकः, क्षेत्रतः प्रकथितोऽपि तथैव। . कालतोऽन्तरहितोऽपि तु भावात्स्पर्शवर्णरसगन्धगुणौघैः // 52 // ज्ञेयो लोकोऽनन्तस्सान्तः, षड्भिर्द्रव्यैनित्यानित्यैः / / मुर्तामूतैरेकैर्जीवाजीवैः कार्याार्यैः // 53 // एकादशी बोधिभावना दुर्लभमेव मनुष्यगतित्वं, दुर्लभमार्यमहीतलजन्म। देवगुरुक्रमपङ्कजसेवा, बोधिमणेरिह दुर्लभयोगः // 54 // विप्राक्षबूतधान्यं युगमणिरजनीनाथपानं तु कूर्मश्चक्रंस्तम्भः किलैभिर्दशभिरतितरां सारदृष्टान्तजातैः / मानुष्यं दुर्गमं यत्कथितमृषिवरैरागमे वीतरागैस्तद्यत्नं बोधिरत्ने कुरुत भविजना ! मोहपाशं विमुच्य // 55 // त्यज मोहमति भज बोधिरति, नम साधुपतिं कृतदेवनतिम् / कुरु दोषहति जहि कामगति, धर धर्मततं गतजन्ममृतिम् // 56 // लक्ष्मीस्तरङ्गतरला मघवद्धनुर्वदेहं च जीवितमहो ! अचिरप्रभावात् / रामाक्षिकूणितमिदं तु विषाक्तबाणस्तद्बोधिरत्नममलं हृदये निधेहि 57 द्वादशी धर्मभावना देवोऽष्टादशदोषवर्जितवपुः सिद्धस्वरूपाकृतिः, साधुः संयमसाधकः श्रुतमतिः स्वांचारयत्नक्षमः। धर्मो जीवदयास्वरूपमतिभृत् स्याद्वादमुद्रान्वितः, प्राप्यैतत्रितयं हि दुर्लभतरं कः स्यात्प्रमादी पुनः ? - // 58 // 122