________________ // 46 // नवमी निर्जराभावना यत्कर्माहिविषामृतं जिनवरा यच्च श्रयन्ति ध्रुवं, येनानेकजनाः शिवं हिंगमिता यस्मै नमस्यन्ति वा / यस्मात्पारगचकिलब्ध्यनुभवो यस्य प्रभावाच्छुभं, यस्मिन्सन्ति गुणा घनाः कुरु तपस्तन्मुक्तिकामो मुने! विघ्नौघस्तपसः प्रणश्यति यथा ध्वान्तं रवेरम्बुदो, वायोः सिंहशिशोर्गजश्च शिखिनः सर्पो निदाघाज्जडः / बाह्याभ्यन्तररूपषड्विधमिदं सन्निर्जराकारणं, मा कार्षीस्त्वमनुद्यमं तपसि चेत्सिद्ध्यङ्गनाकामुकः खनति भवसमुत्थं कर्मकन्दं समूलं, जनननिधनपीडाध्वंसनार्थं त्रिशूलम् / . अनुपमनिजशक्तिप्राप्तिकालानुकूलं, जगति जिनवरोक्ता निर्जरा क्षेमकूलम् तस्मान्नास्ति तमो भवेद्भवतु वा लब्धिर्बभूवाभवद्भूयाद्वा भविता जिनो वसुसुखं स्वार्थो भविष्यत्यपि / छद्मानेहसि यत्त्वभूद्यतिपतेर्वीरस्य घोरं तपो, . नाधास्यद्यदि नाभविष्यदपि यद्धत्यः प्रशंसास्पदम् // 47 // // 48 // // 49 // . दशमी लोकभावमा जम्बूद्वीपो लवणजलधिर्धातकी पुष्कराद्या, अन्ये द्वीपा वलयवलयाकाररूपा असंख्याः / पारावारा विगतगणना द्वीपतुल्याभिधानाः, सर्वस्थाने जननमरणं निर्मितं जीव ! तत्र // 50 // . 121