________________ षष्ठी अशुचिभावना सपलरक्तसिराजिनकीकशे, समलमूत्रमलाविलपुद्गले / अरुचिरे नचिरे हि कलेवरे, सुयुवतेर्भवतेरितमक्षि किम् ? // 34 // नयनयोः कुचयोर्भुजयोर्भुवोः, श्रवणयोः करयोः कचबन्धने / किमपि चारु न चर्मनिगुम्फितं, पिशितपूरितनिन्दितभाजनम् // 35 // प्रथममेव विलोक्य च चिदृशा, निजतनौ विवराणि वहन्त्यरम् / नवजुगुप्सितगन्धरसानि तन्ममतया विदधासि हितं न किम्? 36 अनुदिनं द्वययुग्दशरन्ध्रभृधुवतिविग्रहकर्करमन्दिरम् ! / नगरसारणिवत्स्रवतीदृशं, त्यज मनो भज पारगतं वचः // 37 // // 38 // सप्तमी आश्रवभावना कासारो वारिमार्गः प्रचुरजलभरः स्याद्यथा मर्त्यलोके, जीवेऽस्मिन्नाश्रवौधैरशुभशुभकरैः कर्मराशिस्तथैव / दुःखी चादुःख एको जगति रचनया कर्मणोऽयं विचित्रस्तस्माद् बध्नीहि पाली विषयरुचिमनोवाग्वपुर्योगरोधैः अनन्ता आत्मानो नरकभवने ह्याश्रववशा द्ययुर्वा यास्यन्ति प्रबलविषया यन्ति बहवः / अतस्तं मिथ्यात्वाविरतिकरणक्रोधशयन- . प्रमादं दुर्मोचं भवभयपुरं मुश्च मनसा क्रियाः कुगतिकारणं जगति विंशतिः पञ्चयुक्, प्रवृत्तिरपि दुःखदा व्रतवतां वचश्चेतसाम् / हृषीकदमनं वरं कुरु शिवे यदीच्छास्ति ते, पिधानमिदमाश्रवः श्रमणधर्मरोधाध्वनः 119 // 39 // // 40 //