________________ वसति युवतिर्वेश्मान्तर्वा धनं धरणीतले, . पवनजविनो वाजिव्यूहा धनोपमिता गजाः। . प्रबलसुभटाःस्वस्वस्थाने रथाः पतिताः पुनः, परभवगतावेको जीवश्चलेद्गतसम्बलः .. एको धनेशो वरभोगभोजी, छेको वराको दररोगयोजी। एकः सुरूपस्तु कुरूप एको, धर्मं कुरु त्वं तत एक एव // 28 // // 29 // पञ्चमी अन्यत्वंभावना अन्यच्छरीरं धनधान्यमन्यदन्यैव रामा गृहभारशक्ता। .. अन्ये त्वदीयाः सुतबान्धवाद्याः, सर्वं,पृथक्स्वं नखवच्च हस्तात् पाषाणात्सलिलं मणिविषधरात्तोयाच्च तैलं यथा, शर्वर्या दिवसं तमो दिनमणेश्छायातपादिग्गता / श्वेतात् कृष्णतर: कटोश्च मधुरो दुःखात्सुखं चापरं, तद्वत्सर्वमिदं हि वस्तु भवतो विद्धि त्वमन्यत्तथा // 31 // वहति वृषभः सारं भारं गृहे घृतभुक् सदा, यदि स च जराजीर्णोऽभून्नो लभेत तृणं तदा। अयमिव भवे लोकः शोकाकुलः किल सर्वदा, किमु जडमतेऽन्यार्थ स्वार्थं त्यजेर्भवमर्मदाः जनन्या ययाधारि कुक्षौ सुतो यः, पयोऽपायि विण्मूत्रशुद्धिस्त्वकारि। युवाऽभूद्यदा तेन जाया न्यषेवि, ततोऽन्यन्मयाऽज्ञायि धर्मः सहायः // 33 // 118 // 32 //