________________ तृतीया संसारभावना संसारस्य सुखं त्वयापि बहुशो भुक्तं भवे भ्राम्यता, योनिः काचन नास्ति यत्र न मृतो जातो न वा त्वं कदा। प्रीति किं विदधासि तत्र जडधी रोगाधिशोकाकुले, बुद्धि जैनमते निधेहि नितरां संसारमोहं त्यजन् // 22 // कदाचिद्देवोऽभूः क्वचिदपि नरः प्राणविकलो, गतिस्तिर्यग्योनौ जनकजननीभेदरहितः / महत्कष्टं सोढं नरकभवजं वर्षशतकैरहो ! अद्यापि त्वं भवविरतिमस्मिन्न लभसे // 23 // क्वचिदपि हयः सिंहः सर्पो गजो वृषभः खरः, क्वचिदजगरोऽभूस्त्वं चाखुः कदापि मृगः शुनः / भुवि पयसि वा वह्नौ वायौ वनस्पतिके स्थितो, जड ! किमधुना संसारेऽस्मिन् रतिस्तव तादृशी? // 24 // धनेशो वराको नृपो दासवृत्तिरसुतः सपुत्रः कदा कामरूपः / कुरूपः सयोगी वियोगी नरोऽभूर्यथा चाधुना मूढ ! धर्मं भज त्वम्२५ .... // चतुर्थी एकत्वभावना / / उत्पन्नं परलोकतोऽत्र भवता गन्तव्यमेकाकिना, संबन्धः किल कृत्रिमो हि युवतेतुश्च पित्रोः पुनः / पुत्राणां दुहितुःपतेः श्वशुरयोः श्यालस्य मातृष्वसु स्तस्मात्स्थास्यति सर्वमत्र सहगो धर्मो भवेदेकक: एकस्त्वं गुणभृत्सदैव भुवने कस्यापि कश्चिन्न ते, सर्वः स्वार्थपरः पिता च जननी सूनुर्वधूर्बान्धवः / दायादः स्वजन: सुहृच्च भगिनी स्वामी तथा सेवको, हित्वा तत्प्रतिबन्धनं जिनपतेर्धर्मं भज त्वं मुदा // 26 // // 27 // - 117