________________ भवति कोऽद्य न चक्रधरो हरिजिनवरः पृथिवीतलभूषणम् / रविविधू चपलौ खलु दृग्गतौ, तव भवेऽत्र भवेज्जड! किं स्थिरम् // 16 // दृश्यन्ते दिवसोदये जगति ये भावास्तु सायं न ते, भुक्तं भोजनमेव षङ्सयुतं तत्कालनाशं गतम् / बालत्वं बत यौवनं च गदतः क्षीणाङ्गता वृद्धताऽ . लेऽवस्थां हि विलोक्य सारसमताधर्मे प्रयत्नं कुरु . // 17 // // 18 // द्वितीया अशरणभावना माता पिता च भगिनी सहजो वधूर्वा, पुत्राः सुताः करिघट रथपङ्क्तिस्वाः / भृत्या घनाः परिकरः परतः परीत- , स्तेभ्यो न ते किमपि भोः शरणं सहायः अनाथो निर्ग्रन्थो नयनभवरोगेण निहतस्तदा कश्चिन्न स्यांच्छरणसुखदस्तस्य भुवने। प्रसर्बीजी रामा सकलसुजनो दीनवदनस्ततो धर्मः सारो जगति भविनामेकशरणम् . त्राणं किन्तु परत्र जन्मनि भवेद्देहं गृहं गेहिनी, देशा दन्तिचया रथास्तु तुरगा गावो महिष्यो मयाः। भण्डारः कनकं मणिर्मरकतं रत्नाञ्चितालकृतिः, सर्वं स्थास्यति यत्र तत्र शरणं धर्मं विना नास्ति किम् ? दग्धा द्वारवती यदा प्रकुपितद्वैपायनेनर्षिणा, गोविन्दो बलवांस्तदैव कृतवान् रक्षां न कस्यापि च। निर्नाथा मनुजा धनञ्जयवशाः पञ्चत्वमाप्ता घनाः, श्रीमन्नेमिजिनस्तदैकशरणं जातस्तु भव्याङ्गिनाम् 116 // 20 // // 21 //