________________ // 9 // // 10 // // 11 // // 12 धर्म द्वादशभावनायतिदशक्षान्त्यादिधर्मान्वितं, तीर्णागाधभवोदधिं च कुरुत त्यक्त्वा परां कल्पनाम् सिद्धान्तश्रवणं हृषीकभुजंगस्याशीविषध्वंसनं, प्रज्ञाकल्पलताङ्कुरोद्भववनं मोहाब्धिसंशोषणम् / मायावल्लिविनाशनं त्वघतरोर्मूलाग्निसंस्थापनं, सन्तापप्रतिघातनं, शुभमनःसंवृद्धिसंभावनम् परिहर मनो गच्छन्मत्स्योपमं विषकण्टकोपमितविषयेष्वात्मन्पाप्मन् कथं कथयामि भोः? / किमपि वचसा सिद्धान्तं तं विलोक्य तत्त्वतो, भवति हि कदा चित्ते चित्ते गुणः श्रुतसंश्रुतेः विधेहि दृष्टिं समये समाधि, कलेवरे दोषहरे त्वपारे। बोधं विना को न लभेत मुक्ति, ज्ञानं प्रधानं प्रवदन्ति हेतुम् श्रुत्वा सारं प्रवचनवचो ज्ञायते कार्यजातं, दौर्जन्यं स्वं त्वपरखलता सज्जनत्वं सुधीत्वम् / / लोकाकारो दिवनरकयोराकृतिश्चित्तवृत्तिः, शुद्धा श्रद्धा गुरुविनयिता देवपूजाप्रभावः अनित्यं संसारे भवति सकलं यन्नयनगं, वपुर्वित्तं रूपं मणिकनकगोऽश्वद्विपजनम् / / पुरं रामा भ्राता जनकजननीनन्दनकुलं, बलं देहोद्भूतं वचनपटुता भाग्यभवनम् गगनधनुषा मेयं देहं पयोधितरङ्गवद्, बहु धनमिदं त्वायुर्वायुर्यथा जगतीतले / सुतनुयुवतिस्नेहो लेहो विषाक्तकृपाणजः- . अविचलसुखदो धर्मः कर्मक्षयः क्रियतामतः . . . 115 // 13 // // 14 // // 15 //