________________ // 4 // तस्मात्केवलमात्मनः किल कृतेऽनुष्ठानमादीयते, मत्यैर्यैः सुकृतैकलाभनिपुणैस्तेभ्यो नमः सर्वदा // 2 // हितं न कुर्यानिजकस्य यो हि, परोपदेशं स ददाति मूर्खः / ज्वलन्न मूलं स्वकपादयोश्च, दृश्येत मूढेन परस्य गेहम् // 3 // न कश्चित्संसारे भवति सुसहायश्च शरणं, विना धर्मं शुद्धं जिनवरमुखोक्तं नयभृतम् / ततस्त्यक्त्वा मिथ्यात्वमिह कुरु यत्नं शुभमते ! .. रहस्यं सिद्धान्तोदितमिदमतः किञ्चन परम् आशा परेषां विषवल्लितुल्येत्येवं प्रबुद्धाः प्रवदन्ति तन्न / तस्यां विलग्नास्तु भवेऽत्र दुःखमाशास्थिता यान्ति परत्र चात्र // 5 // कचवरसमः संसारोऽयं जनुर्मरणादिकाऽशुचिचिन्तमृतश्वाहिव्यालाश्वकुत्सितदेहभृत् / ' किमुत रमते तस्मिन्हंसः सुमानसमन्दिरो, भवकृमिगणे मुक्ताभ्रान्त्या रतिस्तव तत्र भोः ! धर्मः स्वर्गपुरीगतौ सुतुरगो धर्मः सभामण्डनं, धर्मः शत्रुसमागमे स्वसहजः कर्मारिदुर्गो गजः / धर्मो दुर्जनदन्दशूकदमने स्याद्वैनतेयस्तथा, धर्मः केवलमुक्तिसौख्यकरणे सद्रललाभः पुनः वयश्चत्वारिंशच्छरदनुमितं चेतन ! गतं, न ते किं मूर्खत्वं विकलमतिबालोचितमिदम् / कथं भो ! विश्वासो हृदयपवने चञ्चलगतावतो धर्मे यत्नं कुरु यदि शिवोत्कण्ठितमतिः भव्याश्चेद्भवतां मनो भवभयोद्विग्नं निमग्नं शिवे ऽप्यर्हद्भाषितभारतीश्रुतिसुधापानं विधत्ताधिकम् / / // 6 // // 7 // // 8 // 114