________________ // 97 // // 98 // दुर्गतिकूपे पततामालम्बनमस्ति किं विना धर्मम् / तस्मात्कुरु प्रयत्नं समयेऽतीते प्रयासवैफल्यम् एतद्द्वादशभावनाभिरसुमानेकान्ततो योऽसकृत् स्वात्मानं परिभावयेत्रिकरणैः शुद्धैः सदा सादरम् / शाम्यन्त्युग्रकषायदोषनिचया नश्यन्त्युपाध्याधयोदुःखं तस्य विलीयते स्फुरति च ज्ञानप्रदीपो ध्रुवम् ख्यातो भुव्यऽजरामरो मुनिवरो लोकाख्यगच्छे मणिस्तत्पट्टे मुनिदेवराजसुकृती श्रीमौनसिंहस्ततः / तस्माद्देवजिनामको बुधवरो धर्माग्रणीशेखरस्तत्पट्टे नथुजिन्मुनिः श्रुतधरः सौजन्यसौभाग्यभूः तच्छिष्यो हि गुलाबचन्द्रविबुधः श्रीवीरचन्द्राऽग्रजस्तत्पादाम्बुजसेवनैकरसिकः श्रीरत्नचन्द्रो मुनिः। . ग्रामे थानगढाभिधे युगरसाङ्केलाब्ददीपोत्सवे तेनेदं शतकं हिताय रचितं वृत्तवरैः शोभितम् // 99 // // 100 // श्रीविबुधविमलकृतं // उपदेशशतकम् // प्रथमा अनित्यभावना श्रीपञ्चासरपार्श्वनाथवदनं दन्तांशुदूरीकृत- . ध्वस्तज्ञानविलीचनश्रुतमहोमोहान्धकारव्रजम् / अभ्यस्तागमभव्यजन्तुहृदयाम्भोजप्रमोदप्रदं, चन्द्रः पापकलङ्कपङ्करहितस्त्रायाद्भयानः पुनः विद्वांसो न परोपदेशकुशलास्ते युक्तिभाषाविदो, नो कुर्वन्ति हितं निजस्य किमपि प्रात्तापराभ्यर्थनाः / 113