________________ // 90 // मानवेऽपि न हि पुण्यमन्तरा प्राप्यते सुकुलदेशवैभवम् / रोगहीनमखिलाक्षसंयुतं कान्तगात्रमपि दीर्घजीवितम् // 85 // पूर्वपुण्यवशतोऽखिलं हि तल्लभ्यते यदि सुकर्मपाकतः। .. दुर्लभस्तदपि कल्पवृक्षवद्योग्यसंयमिगुरोः समागमः // 86 // दुर्लभादपि सुदुर्लभं मतं वीरवाक्श्रवणमात्मशान्तिदम् / हा ततोऽपि खलु बोधिवैभवो यो न कर्मलघुतां विनाप्यते // 87 // . संसदग्र्यपदमाप्यते श्रमाद्राज्यसम्पदपि शत्रुनिग्रहात् / इन्द्रवैभवबलं तपोव्रतैर्बोधिरत्नमखिलेषु दुर्लभम् // 8 // भ्राम्यता भववनेऽघघर्षणात्काकतालवदिदं सुसाधनम् / प्राप्य मूर्ख ! किमु भोगलिप्सया रत्नमेतदवपात्यतेऽम्बुधौ // 89 // येन समग्रा सिद्धिर्दिव्यर्द्धिश्चापि जायते शुद्धिः / धर्मः स किं स्वरूपो जानीहि त्वं तत्त्वधिया तच्च मम सत्यं मम सत्यं वदन्ति सर्वे दुराग्रहाविष्टाः / नैतद्वचसा मुह्येत्किन्तु परीक्षा बुद्धिमता कार्या // 91 // यस्य न रागद्वेषौ नापि स्वार्थो ममत्वलेशो वा। तेनोक्तो यो धर्मः सत्यं पथ्यं हितं हि तं मन्ये // 92 // श्रुतचरणाभ्यां द्विविधः सज्ज्ञानदर्शनचरितभेदाता। धर्मस्त्रेधा गदितः सोयं श्रेयःपथः समाख्यातः // 93 // सप्तप्रकृत्युपशमाऽऽदित उदयति गुणपदे चतुर्थेऽलम् / धर्मः केवलमाद्योऽन्यलवोपि च पञ्चमे द्वयं षष्ठे तत्फलमवाप्यते नो कामगवीतः सुद्धुमेभ्यो वा। सुरचिन्तामणितो वा धर्मोऽपूर्वं हि यत्फलं दत्ते // 95 // तद्वस्तु न त्रिलोके जिनधर्मात्तु भवेन यत्साध्यम् / तदुःखं नो किञ्चिद्यस्य विनाशो न जायते धर्मात् / // 96 // // 94 // 112