________________ प्रतिदिवसमनेकान्प्राणिनो निःसहायान् मरणपथगतांस्तान्प्रेक्षते मानवोऽयम् / स्वगतिमपि तथा तां बुध्यते भाविनी वा तदपि न हि ममत्वं दुःखमूलं जहाति // 32 // दिशि दिर्शिततकीर्तिर्भोजभूपः सुनीती रिपुकुलबलदारी विक्रमो दुःखहारी अकबरनरपालो दुर्नयारातिकालो मरणमुपययुस्ते मृत्युना निःसहाया:३३ कोऽहं जगत्यथ कदाप्रभृति स्थिति, माता पिता च तनुजा मम के इमे स्युः / संयोग एभिरभवन्मम किं निमित्तस्तत्त्वं विचिन्तय च पञ्चमभावनायाम् // 34 // गावो हया गजगणा महिषा भुजिष्या वेश्मानि वैभवचया वनवाटिकाश्च / . एभिस्तवाऽस्ति कियता समयेन योगस्तत्त्वं विचिन्तय च पञ्चमभावनायाम् // 35 // एतच्च पुद्गलमयं क्षणिकं शरीर-मात्माचशारदशशाङ्कसदृक्षरूपः। बन्धस्तयोर्भवतिकर्मविपाकजन्यो देहात्मधीजडधियामविवेकजन्या रोगादिपीडितमतीवकृशं विलोक्य किंमूढ! रोदिषिविहाय विचारकृत्यम् नाशे तनोस्तवन नश्यति कश्चिदंशोज्योतिर्मयं स्थिरमजं हितवस्वरूपम् मृत्युर्न जन्म न जरा न च रोगभोगौ हासो न वृद्धिरपि नैव तवास्ति किञ्चित् / ' एतान्नु कर्ममयपुद्गलजान् विकारान् मत्वा निजान् भजसि किं बहिरात्मभावम् // 38 // जन्योस्ति नो न जनकोऽस्ति भवान्कदाचित् सच्चित्सुखात्मकतया त्वमसि प्रसिद्धः / 107