________________ परो दारिद्योत्थं विषसमविपत्तिं च सहते . न संसारे कश्चित्सकलसुखभोक्तास्ति मनुजः // 24 // क्वचिद्राज्ञां युद्धं प्रचलति जनोच्छेदजनकं क्वचित् क्रूरा मारी बहुजनविनाशं विदधती / क्वचिद् दुर्भिक्षेन क्षुधितपशुमादिमरणं विपद्वह्निज्वालाज्वलितजगति क्वाऽस्ति शमनम् // 25 // मम गृहवनमाला वाजिशाला ममेयं / गजवृषभगणा मे भृत्यसार्था ममेमे / वदति सति ममेति मृत्युमापद्यसे चे- . . न हि तव किमपि स्याद्धर्ममेकं विनान्यत् // 26 // तव किल विलपन्ती तिष्ठति स्त्री गृहाग्रे प्रचलति विशिखान्तं स्नेहयुक्तापि माता / स्वजनसमुदयस्ते याति नूनं वनान्तं तनुरपि दहनान्तं नि:सहायस्ततस्त्वम् // 27 // द्विरदगमनशीला प्रेमलीला किलेयं तव हृदयविरामा केलिकामातिबामा। इह जनुषि सदाप्यास्वार्थसिद्धेः सखी ते मृतिमुपगतवन्तं साश्रयेन्नो क्षणं त्वाम् // 28 // विपुलविभवसारं रम्यहारोपहार-मसकृदपि च दत्त्वा तोषिता ये सखायः। अतिपरिचयवन्तस्तेप्यदूरं वसन्तो भयदमरणकाले किं भवेयुः सहायाः बहुजनमुपसेव्योपार्जितंद्रव्यजातंरचितमतिविशालं मन्दिरंसुन्दरंवा। मृतिपथमवतीर्णे वेदनानष्टभाने क्षणमपि नहिकिञ्चित्त्वत्पथंचानुगच्छेत् समजनिजनिकाले मानवोवस्त्रवित्ताऽशनजनबलहीनो बद्धमुष्टिस्तथापि वदति तव महत्त्वं पुण्यशालित्वमेतन्मृतिसमयकरोयंरिक्तभावंव्यनक्ति 100