________________ // 18 // // 19 // // 20 // परावर्तानन्त्यं प्रतिगगनदेशं विहितवांस्तथाप्यन्तं नाप्नोद्भवजलनिधे: कर्मवशतः अयं जीवः सेहे नरककुहरे क्षेत्रजनितां व्यथां शैत्यादेयाँ परवशतया चैकसमये / शतैर्जिह्वानां सा गणयितुमशक्येति जगदुय॑था तादृक् तीव्रा कथमिव विसोढा चिरतरम् कदाचिज्जीवोऽभूनरपतिरथैवं सुरपतिस्तथा चाण्डालोऽभून्नटशबरकैवर्ततनुजः / कदाचिच्छेष्ठोऽभूत्किटिशुनकयोनौ समभवन संसारे प्राप क्वचिदुपरति शान्तिमथवा पिता यस्याऽभूस्त्वं तव स जनकोऽभीक्ष्णमभवत् प्रिया या सा माता सपदि वनिता सैव दुहिता / कृता चैवं भ्रान्त्वा जगति बहुसम्बन्धरचना भवेप्येकत्रासन् द्विगुणनवबन्धाः किमपरे अरण्यान्या अन्तं द्विरदतुरगैर्यान्ति मनुजा लभन्ते नौकाद्यैः कतिपयदिनैः पारमुदधेः / भुवोप्यन्तं यान्ति विविधरथयानादिनिवहैन संसारस्यान्तं विपुलतरयत्लेपि विहिते . गृहे यस्मिन् गानं पणवलयतानं प्रतिदिनं . कदाचित्तत्र स्याधुवसुतमृतौ रोदनमहो। 'क्षणं दिव्यं भोज्यं मिलति च पुनस्तुच्छमपि नो न दृष्टं संसारे वचिदपि सुखं दुःखरहितम् तनोर्दुःखं भुङ्क्ते विविधगदर्ज कश्चन जनस्तदन्यः पुत्रस्त्रीविरहजनितं मानसमिदम् / 105 // 21 // // 22 // // 23 //