________________ // 12 // // 13 // // 14 // धावन्त्यन्ये दिशिदिशि यथा स्वस्वरक्षाधुरीणाः कालेनैवं नरि कवलिते कोप्यलं रक्षितुं नो कृत्वा कामं कपटरचनां दीनदीनानिपीड्य हृत्वा तेषां धनमपि भुवं मोदसे त्वं प्रभूतम् / मत्वा स्वीयान् प्रणयवशतः पुष्यसि भ्रातृवर्गान् / कष्टेभ्यस्त्वां नरकगमने मोचयिष्यन्ति किं ते - येषामर्थे सततमहितं चिन्तयस्यात्मनोपि. कृत्याकृत्यं गणयसि पुन व पापं च पुण्यम्। गाढं धूलि क्षिपसि शिरसि प्राणिनो हंसि चान्यान् किं ते पुत्रा नरककुहरे भागभाजस्त्वया स्युः यस्यागारे विपुलविभवः कोटिशो गोगजाऽश्वा रम्या रामा जनकजननीबन्धवो मित्रवर्गाः / तस्याऽभूनो व्यथनहरणे कोपि साहाय्यकारी तेनाऽनाथोऽजनि स च युवा का कथा पामराणाम् राज्यं प्राज्यं क्षितिरतिफला किङ्कराः कामचाराः सारा हारा मदनसुभगा भोगभूम्यो रमण्यः / एतत्सर्वं भवति शरणं यावदेव स्वपुण्यं मृत्यौ तु स्यान किमपि विनाऽरण्यमेकं शरण्यम् संसारेऽस्मिन् जनिमृतिजरातापतप्ता मनुष्याः सम्प्रेक्षन्ते शरणमनघं दुःखतो रक्षणार्थम् / नो तद् द्रव्यं न च नरपति पि चक्री सुरेन्द्रो किन्त्वेकोयं सकलसुखदो धर्म एवास्ति नान्यः अहो संसारेऽस्मिन् विरतिरहितो जीवनिवह- . . श्चिरं सेहे दुःखं जननमरणैर्बहुविधमसौ। // 15 // // 17 // 104