________________ // 7 // // 8 // स्वादिष्टाशनपानयानविभवैर्नक्तं दिवं पोषितं हा नष्टं तदपि क्षणेन जरया मृत्या शरीरं रुजा. प्राज्यं राज्यसुखं विभूतिरमिता येषामतुल्यं बलं ते नष्टा भरतादयो नृपतयो भूमण्डलाखण्डलाः / रामो रावणमर्दनोपि विगतः क्वैते गताः पाण्डवा राजानोपि महाबला मृतिमगुः का पामराणां कथा रे रे मूढ जरातिजीर्णपुरुषं दृष्ट्वा नताङ्गं परं किं गर्वोद्धतहासयुक्तवचनं ब्रूषे त्वमज्ञानतः / रे जानीहि तवापि नाम निकटं प्राप्ता दशेयं द्रुतं सन्ध्याराग इवेह यौवनमपि तिष्ठेच्चिरं तत्किमु रम्यं हर्म्यतलं बलञ्च बहुलं कान्ता मनोहारिणी जात्यश्वाश्चटुला गजा गिरिनिभा आज्ञावशा आत्मजाः / एतान्येकदिनेऽखिलानि नियतं त्यक्ष्यन्ति ते सङ्गति नेत्रे मूढ निमीलिते तनुरियं ते नास्ति किं चापरम् त्यक्त्वा धर्मं परमसुखदं वीतरागैश्च चीर्णं धिक्कृत्यैवं गुरुविधिवचः शान्तिदान्ती तथैव / भ्रान्त्वा लक्ष्मी कुनयचरितैरार्जयस्त्वं तथापि मृत्यौ देहं प्रविशति कथं रक्षितुं सा समर्था मत्वा यां त्वं प्रणयपदवी वल्लभां प्राणतोपि / पुण्यं पापं न गणयसि यत्प्रीणने दत्तचित्तः / सा ते कान्ता सुखसहचरी स्वार्थसिद्धयेकसख्या मृत्युग्रस्तं परमसुहृदं त्वां परित्यज्य याति दुर्गेऽरण्ये हरिणशिशुषु क्रीडया बम्भ्रमत्सु तत्रैकस्मिन् मृगपतिमुखातिथ्यमाते प्रकामम् / 103 // 9 // // 10 // // 11 //