________________ अस्य द्विषद्गोत्रविखण्डनेन, भेजे भुजाभ्यां पविना जयश्रीः / तेनैव दर्पश्चिरमेतयोः किं, विस्तारयुग्मांसलतां ततान // 8 // स मांसलांसद्वितये करीन्द्रः, स केसरी चाजनि मध्यदेशे। अहो तमासाद्य कुतोऽपि हेतोविरोधिनोरप्यगलद्विरोधः // 85 // निर्वेदतः किं तपसे सिषेवे, वनं न रक्तोत्पलपल्लवाभ्याम् / तदीयपादद्वयनिर्जिताभ्यां, प्रतिक्षणात्क्षीणविपल्लवाभ्याम् // 86 // सीमा किमस्मिन्निजकौशलस्य, सम्भूय भूयः स्मरयौवनाभ्याम् / समापि लावण्यविधाविधानात्, कुतॊऽन्यथा हीदृशरूपसृष्टिः॥ 87 // गलन्निमेषञ्च निरन्तरञ्च, तदर्शनादर्शनतृप्त्यतृप्ती। स्वर्जन्मनः काभिरहो सुरीभिर्निन्दास्तुती कारयतः स्म नोच्चैः।। 88 // कथन्न चक्षुःश्रवसां वधूनां, शुश्रूषया चास्य दिदृक्षया च। सम्पूर्यतामेकतरोपयोगव्यग्रासमग्राक्षमिथः प्रवृत्त्या // 89 // क्व योग्यताऽस्मासु किलास्य योगे, कृतार्थता वा नयनोपभोगे। इत्थं न काभिर्मनुजाङ्गनाभिर्विसिस्मिये वा हृदि सिस्मिये वा॥ 90 // तन्त्रात् प्रयोगात् किल किन्नरीणां, सङ्गीततांनाहिततद्गुणानाम् / प्रियैः शशाङ्के रसपेशलिम्ना, न मूर्च्छनाग्रामजमूर्च्छनेति - // 91 // सर्वाङ्गशैत्यप्रणयि प्रकामं, गन्धर्वगानं मधुरा सुधेति / पुलोमजालोमनि शस्यहष्यत् शक्राय तं किन्न विन ते स्म // 92 // उद्वेलमुत्सर्पति यौवनाब्धौ, प्रद्युम्नराजाभ्युदयेन तस्य / मानैर्मनोभिर्ननु मानिनीनां, मज्जद्भिरुत्प्लुत्य गति न तेने // 93 // जगन्ति जेताऽपि मनस्विनीनां, चेतश्चलं लक्ष्यमवेक्ष्य कामः / / अमोघशक्तिं किल तं युवानमासाद्यमाद्यत्तममानसोऽभूत् // 94 // तं युवानमनुवीक्ष्य पुरन्ध्री, दुःखमज्जितमनावृति-कृत्ये / आशयाऽपि कृशयौवनिकाऽभूत्, तां विहाय किल नायकदेवीम्॥१५॥ 204