________________ स्वरूपलक्ष्म्यैव हि भस्मभूयमनेन नेतुं सुशक: स कामः / अतोऽस्य मन्ये भवमन्युवह्निदाहप्रयासः किल फल्गुरेव // 72 / / द्रष्टुं किमासीन्मघवाऽस्यं रूपं, विस्फारितस्फारसहस्रनेत्रः।। गातुं गुणानेव किमेतदीयान्, सहस्रजिह्वोऽपि सहस्रजिह्वः // 73 // सतीव्रतोच्छेदभियानुदीतरोमाञ्चराजिः कथमद्य गौरी / श्रुत्वा सचिन्तोऽस्य न कीर्तिकान्ती, प्रमोदमङ्गैर्विवरीतुमीशः॥ 74 / / कस्तूरिकापङ्किलसूर्यचन्द्रतुङ्गस्तनी किं रिपुदुर्यशोभिः / अशोभि नैतस्य यशोभरैयौः, कर्पूरपूरेण करम्बिताङ्गी // 75 // यद्भास्वताऽनेन तमः समस्तं, निरस्यते स्मानुदिनोदितेन। कथं न तेनास्तु सतां सुवर्त्मगतेर्निदानं विजयप्रकाशः // 76 // सन्त्यज्य जाड्यं बहु चापलञ्च, यच्छैशवं तेन न बह्वमानि / इतीव तद्यौवनसीम्नि भक्ते रोमोद्गमो रोषवशाज्जगाम // 77 // व्यशीशिषद्रूपमथास्य लास्यं, वयः स्मयस्मेरतरस्मरस्य / बाल्यात्परं नाम तथा यथोच्चैर्भानुप्रभा सौरभमम्बुजस्य // 78 // अचूचुरच्चामरभासमस्य, केशोच्चयश्चामरभासमस्य / वने निवासं चमरी च लेभे, विपर्ययं किन्न गतिश्च लेभे // 79 // भवं समासेव्य किलैतदास्यसायुज्यभाजं द्विजराजमापुः / तदानुचर्योचितकर्मयोगाद्, द्विजा अपीमे ननु किन्न मुक्ताः // 80 / / पुरो मुखस्यास्य वृथैव भूतमसौ कलङ्कीति यदाक्धत्ते / धत्ते तदा नाम विधौ स वेधा, सन्तक्षणी दारुणराहुदंष्ट्राम् // 81 // जेतुं जगद्यस्य दृशैव शक्यं, मुखस्य तस्यास्तु न किं विशेषः / इदं जडात्मा सहसाऽविचिन्त्य, वृथा विधुः स्पर्धति दुर्विनीतः।। 82 // स्वकान्तिमित्रस्य स एव शश्वत्सङ्क्रम्यमाणां गुणसङ्क्रमेण / सुवर्णशैलस्य गतां शिलासु, विशालतां नो वपुषाऽपुषत्किम् ? // 83 // 273