________________ प्रकामवन्ध्याचल-साधुसेवाहेवाकिभावादवदातकीर्तेः / अनेकपस्यास्य न कस्य शस्यानिरर्गलं दानजलप्रवृत्तिः // 60 // श्रीदः श्रिया निर्जित एव तेन, महेश्वरश्चेश्वरतागुणेन / अतस्तयोस्तज्जयकाङ्क्षिणोः किं, मिथः सुहृद्भावरसामन्तः।। 61 // पुरन्दरो गोत्रभिदेव देवः, श्रीदोऽपि नाम्ना स कुबेर एव / ताभ्यामनेनेव तु निष्कलङ्घ, लब्ध्वापि लक्ष्मीश्चिरमन्वशीलि।। 62 // दान्ता महद्भिर्नहि नाम काममुच्छृङ्खलाश्चापलमाचरन्ति // 63 // विमानलक्ष्मीपरिभोगतोऽस्य, समानता चेन्न पुरन्दरस्य / तदेतदौपम्यकथाप्रथायामभेद एवास्तु परं निदानम् // 64 // विद्याभिरेतस्य जितोऽधितस्थौ, पुनः कविर्यल्लघुलेखशालाम् / ततस्तदीयाध्ययनार्थपूर्वाभ्यासाय ताराः खटिकात्वमीयुः // 5 // दयैव तेनान्तरधारि जीवे, यतो भयं भेजुषि भूरिधाम्ना / तदीयविद्याविभवस्य नाभूत् कला तु षोडश्यपि जातु काव्ये // 66 // विद्या गुरोरेव हठाद् गृहीताश्चतुर्दशाऽप्यस्य मुखे विलेसुः / अतो लघूभूत इवैष चित्रं, व्योमाङ्गणे स प्रतिबम्भ्रमीति // 67 // अनाश्रितेऽस्मिन्न महत्त्वभाजां, वाचामहम्पूर्विकयेति बुद्ध्या / एनं श्रिताभ्यां सुदृढं किमाभ्यां, श्रीभारतीभ्यां मुमुचे विरोधः॥ 68 // प्रकम्प्यमानो जगदे स्वयं यो, मेरुर्नमेरुर्जगदीश्वरेण / धीरस्तु तेनास्तु कथं सुवर्णाचलस्य मुख्यस्य तुलाऽप्यमुष्य // 69 // मुख्यो महेन्द्रो व्यलसत्किलायं, शक्रः पुनस्तत्प्रतिबिम्बमात्रम् / / इदं विशिष्यापरिचीय तत्त्वं, विपर्ययभ्रान्तिरहो जनानाम् // 70 // इतः समुद्रादुदपद्यतोच्चैर्यशः शशी यत्किल निष्कलङ्कः / सरस्वतीशालिनि तत्र जाते, निष्कम्पभावस्य विजृम्भितं तत् / / 71 // 202