________________ उन्मज्जदाविर्भवदात्मदोषो, यबिम्बचुम्बी परिखाजलेषु / मुधा यदाभाहरणांपवादजिहासया दीव्यति दिव्यलोकः // 48 // बभूव भूवल्लभतानिदानैर्गुणैर्गरिष्ठः सुकृतैकनिष्ठः / तत्रैव मान्धातृपुरीपराये, श्रीमान् महेभ्योऽनघमल्लनामा // 49 // गुणैनिजैदिग्जय-सूचनार्थममुष्य गौरीस्तनतुङ्गशैले / कस्तूरिकापत्रलतावितानैः, कीर्तिप्रशस्तिं व्यलिखद्विधाता // 50 // एतद्गुणैश्चन्द्रमरीचिगौरैर्यशःपटं यं कवयो वयन्ति / तेनावृताङ्गी भवतादिदानी, सुधौमूंगाक्षी मलिनाम्बरत्वक् // 51 // अनेन सम्पूरयता जनानामाशां यशो यद्विशदं प्रसूतम् / अपूपुरत् कां न भृशं तदाशां, गुणो हि हेतोनिजकार्यगामी // 52 // श्वभ्रे बलिः प्रेष्यत विष्णुनेति, प्राचां न वाचामनुमोदना नः / ह्रियैव तद्दानगुणैर्जितः सन्नधो जगामेति तु नव्यतर्कः // 53 // वनीपकानामिदमीयदाननीरस्रवन्त्या परिवाहितो यः / और्वानलस्य च्छलतः किलाब्धौ, दारिद्रयवह्निचलति स्फुटोऽयम्॥५४॥ अपारिजातोऽपि वनीपकानामपूपुरत् कामितमर्थमेषः / सपारिजातस्तु विलज्जयातो, लीनालिनीलाननतां प्रपन्नः // 55 // गुणेन दानस्य तुलामयासीद्-वृथाऽस्य किं कामगवी पशुः सा / एतद्विशेष श्रवणेन शश्वनोचेद्रियोत्तानमुखी कथं वा // 56 // अहो भवस्यैव महान् व्ययोऽभूत्, सुपात्रपोप्लाद्विभवव्ययेन / भावे पुनस्तस्य विवर्धमाने, वरीवृधीति स्म विभाव एव // 57 // ततः कृतार्था विबुधा अपीमे, कल्पद्रुमस्यापि न याचितारः / तदात्तदातृत्वगुणस्य तस्य, कष्टत्वमात्रं किल संविदानाः // 58 // वेगप्रकर्षादतिलय विश्वं, पदं प्रसर्तुं न ददे पुरो यत्। - मन्तोस्ततस्तद्वचसाऽपि तेने, सप्ताम्बुधीनापि कण्ठरोधः // 59 // . 271