________________ अथ कथमपि योग्यतावमर्शव्यतिकर-संशयपारगस्य धातुः / मनसि पदमियं भृशं कृशाङ्गी समधृत नायकदेव्यपीह कार्ये // 96 / / इमां कथञ्चित्परमाणुमध्यां, मनो विधेर्यत्परमाणु दधे। तत्कल्पनीयः किल कोऽपि तस्यां, संयोगयोग्यप्रतियोगिभावः॥ 97 // श्रियमिव हरिणा हरेण गौरी, सुरपतिनेव पुलोमजां प्रगल्भः / अथ महति महे महेभ्यपुत्रीं, ध्रुवममुना सहतां स संयुयोज // 98 // विहितसदृशयोगख्यातकीर्तिविरञ्चिः, किमपि कपिसरूपं चापलं चापलप्य / शुचिरजनि स योग्यायोग्ययोगप्रयुक्तं, निजमखिलकलङ्क मार्जयनार्जवेन / // 99 // उद्गतेन तमसोऽवधीरणाद्, यौवनोदय-समृद्धिशेवधिः / विश्वविश्वजननेत्रकौमुदी, सा व्यराजत कलावताऽमुना // 100 // भानोः प्रभेव सविधं परिशीलयन्ती, तस्य प्रकाशवदना पुरुषार्थभाजः। . सा दिद्युते प्रतिदिनं समुदित्वरश्रीविश्वत्रयीमृगदृशां विजयावदाता // 101 // गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्नि जीतविजय-प्राज्ञाः परामैयरुः / तत्सातीर्थ्यभृतां नयादिविजय-प्राज्ञोत्तमानां कृतौ, शिष्यस्यादिमसर्ग एष विजयोल्लासे रसोल्लासभूः // 102 // ... द्वितीयः सर्गः युवनेत्रविलासि यौवनं, शुचिवंशोचितशीलशालिता। चिरमेतदभूदिहोभयं, सुधियः कस्य न विस्मयावहम् // 1 // 205