________________ दुःखैकखानि दुरितद्रुवल्लीमशेषदोषव्रजजन्मभूमिम् / आशां निराशीकुरुते जनो यः सुखी स एवेह न कश्चिदन्यः॥ 93 // जीर्णे न जीर्णा न कृशे कृशा या नैसर्गिकी सा न जने धनाशा। उत्पातजातिः परमुल्बणैषा तस्यां च सत्यां सुखिता कुतस्त्या॥ 94 // यां स्नेहपीयूषघनेऽप्यकस्मादङ्गारधारां प्रकटीकरोति / आशाभिधाना किल सा, दवाग्निज्वाला न लोकावगतस्वभावाः॥१५॥ विधाय वक्षो बलिभिः सहारं सपुष्पमालं पलितैः शिरश्च / पुंसामतृप्ता धृतिमेष्यतीयं प्रदाय किं मण्डनमन्यदाशा ... // 96 // आलम्ब्य लोका व्यसनार्णवे यां पतन्ति हित्वा च तमुत्तरन्ति। .. आश्चर्यमेषा विपरीतरीतिराशातरी किं न चरीकरीति // 97 // न यत्र चन्द्रार्कमरीचिवीचिः प्रयाति नो वा पवनः प्रचण्डः। हित्वा विचारं पुरुषस्य तत्राप्याशापिशाची कुरुते प्रचारम् // 98 // अस्या वशीभूय कथं न भूयस्त्रपेऽकृपो भ्रातृवधाय धावन्। . कथं च कुर्यामभिषेकनीरानिधौतचक्राननपङ्कमार्टिम् // 99 // इत्युद्धतद्वैतविचारदोलालोलायमाने भरतस्य चित्ते / उदाहरन्न्यायविवेकशुद्धमद्वैतपक्षं सचिवो निजेष्टम् // 10 // राज्ञामसुभ्योऽप्यधिकं हि तेजोयुक्तस्ततस्तच्छिदिमन्युरेव। . निजः परो वा स विनीयमानो नीत्या निषेधान्न यशो निहन्ति 101 अल्पो हि सह्योऽविनयोऽनुजस्य गृहोचितोऽस्मादितरस्त्वसह्यः। उद्गृह्णति ह्यध्ययने च वादे भिन्ना गुरोर्व्याहृतयो न शिष्ये // 102 // ज्येष्ठस्य नाज्ञां दलयेत्कनीयानिति क्षितौ नीतिरनादिरूढा / लुम्पन्नसौ तां यदि नो कुकीर्तेबिभेति तत्का भवतस्ततो भीः।। 103 सौभ्रात्रभङ्गस्त्वगतिः स्वनीतिप्रतीतिसिद्धावनुषङ्गजन्मा। व्ययो धनायेव धनार्जनायां भवन्ननुद्देश्यतया न दोषः // 104 // 58