________________ स्फुटीकरोत्येव च राजनीतियोस्तुलेयं लघुतागुरुत्वे। तथापि दिग्मोहसमः समत्वभ्रमो भवन् केन निवारणीयः // 105 // न दोषमात्रेण च राजनीतिस्त्वया महाराज ! मनस्युपेक्ष्या। दृष्टं श्रुतं वा भुवने विना किं दोषोद्भवं स्फूर्जति राजतेजः // 106 // चक्रेण सौभ्रात्रममुञ्चतस्ते परेण तत्सुस्थितमस्तु भावा / शेते सुखं यज्जनितप्रतापकीयॆककोणे निखिलत्रिलोकी // 107 // हित्वाऽनुतापद्रवतां तदन्तः कठोरतां चक्रवदाद्रियस्व / धृतिर्न बाढं हृदि संशयानं न राज्यलीला तु शयानमेति // 108 // सुदुःसहं किंचन नास्ति राज्ञामाज्ञाविलोपादपरं हि दुःखम् / तद्दातरि भ्रातरि सौहृदं चेज्जातिस्तदा काऽरिपदाभिधेया // 109 / / नम्र मृदुत्वं च शठे हठित्वं भृत्ये प्रसादश्च नरेन्द्रचिह्नम्। न केवलं चामरधारणं तु मौलौ धृतं तत्पशुनाऽपि पश्चात् // 110 // नम्रस्य देयोन्नतिरित्युदात्तं नत्वोन्नमच्चामरमाह राज्ञे / . अत्युन्नतो यः स तु नामनीय इत्यस्य वक्ति व्यतिरेकभङ्गी // 111 // आशानिराशीकरणादिसूक्तं पीयूषसिक्तं स्वदते यतीनाम् / नीत्यूजितं शौवरसं ददाति पृथ्वीपतीनां तु शुभायतीनाम् // 112 // प्रभुत्वमन्त्रौ प्रवितत्य पक्षावुत्साहमाशाविनतातनूजम् / राज्ञोऽरिनागा विनिरीक्ष्य दूराद्धमन्तमन्तः सभया भवन्ति // 113 // स किंनृपो यस्य भवेन्न चित्ते परोन्नतिध्वंसविधौ संदाशा / अत्युन्नताम्भोदघटाऽसहिष्णोर्लघुः स वायोरपि किं न लोके।। 114 / / स्नात्वा जयाशा परकुम्भिकुम्भकीलालजालैस्तव शुद्धिमेति / नान्यैर्जलौघैरिति मा मुहस्त्वं निजद्रुहः स्नेहमहेन्द्रजालैः // 115 / / सिद्धा जिगीषा निखिला तवेश क्लेशः कियान् भ्रातृजये विधेये / स्वं पौरुषं स्फोरय मुञ्च दैन्यं न शत्रुजिष्णु क्व तवास्ति सैन्यम् // 116 / / .. 25