________________ क्षमाभृतः शत्रुषु सक्षमा ये ते मुक्तिकामा न तु भुक्तिकामाः / तेन त्वयाज्ञामवमन्यमाने नास्मिन्नुपेक्षाऽवरजे विधेया // 81 // इमां समुद्दीपितनीतिसारांमुदीर्य वाचं विरराम मन्त्री। दवादितः शैल इवाब्दसिक्तः क्रुद्धोऽवबुद्धो निजगाद चक्री // 82 // जागर्ति नाज्ञां मम मन्यतेऽसावित्येष चित्ते मम मन्युहेतुः / ज्येष्ठः कनिष्ठाविनयासहिष्णुरित्येष तं हन्ति कुकीर्तिकेतुः // 83 / / एकत्र भीत्यै नृपधर्मभङ्गो हठे शठानामविलोठ्यमाने / अन्यत्र सौभ्रात्रहतिः पपात तत्सङ्कटं 'व्याघ्रतटीयमेतत्' // 84 // ललुः पुराष्टाव (?) तिश्चरित्रं स्थातुं न दत्तेऽनुजमप्यमुं यत् / सम्पश्यति भ्रातृगृहं न वक्रक्रूरग्रहः किं मम चक्रदम्भात् // 85 // लोभान्न शोभां सहतेऽनुजानां स्वैरं च वैरं कुरुते कुलेऽसौ। इत्युच्छलन्तीमपवादधारामुपक्रमेऽस्मिन् मम को रुणद्धि // 86 // एकेन चक्रेण रथं यथार्कः सौभ्रात्रमेकेन तथाऽनुजेन / येनाहमद्याध्वनि वाहयामि ते पातयन्नाशु कथं पतामि // 87 // शक्रं चिकीर्षुर्ननु चक्रबन्धुर्गोत्रच्छिदे मां तरलीकरोति। इयत्प्रभुत्वादहमस्मि तुष्टो बिभेमि तस्या इति किं न वेत्ति // 88 // स्वयं न गोत्रे प्रभविष्णु चक्र प्रवर्त्तयत्याशु तदाहवे माम् / अनीतिकृत्येन विरोधबोधः किमीतिमध्ये पठितस्य तस्य // 89 // जगज्जयात्यन्तहितस्य यद्वा चक्रस्य दोषो न मया विचिन्त्यः / / समग्रसाद्गुण्यविधौ विधातुर्वैमुख्यमेवेदमुदीरणीयम् // 90 // भ्रातृव्रजप्रव्रजनोत्थतापो नैकः प्रशान्तो हृदये मदीये / पराभवेऽमुष्य पुनर्द्वितीयः सोढुं क्व शक्यो विषमज्वराभः // 91 // आशीविषीयविजिता किलाशा- ममानुजास्ते जगतोऽपि वन्द्याः / पतन्नमूदृग्व्यसनेष्विदानीमहं तु हन्तास्मि हतस्तयैव // 92 // ૨પ૦