________________ स्वीयच्छविच्छन्नविपक्षलक्षप्रतापकीर्त्यर्कविधुप्रकाशम् / धाराधरं प्रेक्ष्य तदीयखड्गं पलायिताः केऽत्र न राजहंसाः // 69 // आनन्दनश्चन्दनवत्प्रजानां कृतान्तवद्भीतिकरो रिपूणाम् / व्यामोहनो मान्त्रिकवच्छठानां स राजते राजकुलावतंसः // 70 // अस्मिन् दृढीभूतजनानुरागे विवृद्धकोशे प्रसृतप्रतापे। बलोजिते कः कुरुते जयाशां प्राच्यं यशः संशयितं चिकीर्षुः।। 71 // त्वया त्वमुष्मिन्नजिते न शक्यस्त्रातुं निजश्चक्रिपदप्रवादः / नभस्यलुप्त्वा ग्रहमात्रदीप्ति ग्रहाधिपख्यातिमुपैति नार्कः // 72 // कियज्जितं जाग्रति तत्र शत्रौ क्षेत्रं त्वयेदं भरताभिधानम्। . ग्रन्थावभिन्ने सति मोहनीयकर्मेव मोक्षार्थमुपस्थितेन // 73 // समग्रशास्त्रेऽपि कृतप्रवेशा मोमुह्यते ब्रह्मणि दृग्यथोच्चैः। तथा तवास्मिन् जगदेकसारे प्रणीतषखण्डजयाऽपि सेना // 74 / / चक्रं सहस्रेण सुरैरवेति वृत्तान्तमेनं द्विसहस्रनेत्रम् / प्रतिश्रुतं सर्वजये प्रवेशं कथं करोत्यायुधवेश्मनीदम् // 5 // न वक्रभावस्तदिहास्ति कश्चिच्चक्रस्य भूशकसमागमाय। तवानुजस्यैव तु सत्त्वयास्मिन्नारोप्यते विभ्रमशक्तिभाजा // 76 // तदस्य पूर्वं प्रहितेन वक्त्रच्छायैव दूतेन विलोकनीया / ॐकारमग्रेसरयत्यतश्चेदाज्ञा श्रुतौ तन्महतीष्टसिद्धिः // 77 // प्रमादसुप्तो यदि नागतोऽसौ तद् द्रागमुं जागरयिष्यतीयम्। त्वद्वामभानोरुदयाभिधात्री दूतीयवाणी कृकुवाकुकाकुः // 78 // अन्येष्विव त्वय्यपि दोर्मदं स प्रदर्शयिष्यन्नथ नागतश्चेत्.। त्वदूतवाचः श्रवणात्तदानीं मानी प्रतिज्ञास्यति सम्परायम् // 79 // स त्वामगत्वा शरणं रणं चेत् करोति तत्सर्वबलेन दण्ड्यः / स्वीयोऽपि विद्धो विषकण्टकेन कथं क्रमस्यावयवः सुरक्ष्यः।। 80 // 256