________________ // 57 // / 59 // एष्यद्विनिर्यद्बहुदिक् क्व चारुनिःशेषलेखोल्लिखितर्द्धिवृद्धिः / सहस्रनेत्रैः सचरैर्भविष्णुः स्पर्द्धा विधत्ते सहवासवेन तदीयकोशे विलसत्यपूर्वा लब्धिः किलाक्षीणमहानसीया / दत्ता परस्मै यदनन्तलक्ष्मी: स्वयं च भुक्ताऽपि न निष्ठिता स्यात् / / 58 // अन्तःपुरं तस्य रतेन कायव्यूहश्रियं किं श्रयतेऽत्युदारम् / विश्वत्रयोत्कृष्टविनोदशालिसमानशीलस्मररङ्गलीलम् वाक्कौशलाद् वा पतिमीहते स प्रोद्दामधीर्जेतुमिहानु तं यत् / लक्ष्मच्छलोद्ग्राहनिगीर्णवर्णमालम्बितं पत्रमिवेदमिन्दुः // 60 // सुधीभिरक्षुद्रविमुद्रितार्थविस्तारिसारस्वतसारकोशैः / / सकर्णकर्णामृतयानतृप्तिः सञ्जायते तस्य महासभायाम् // 61 // कविर्बुधश्चाभ्युदयं लभेते सदा यदभ्यर्णगतिं श्रयन्तौ / स कोऽपि भास्वान् गणकैरदृष्टस्वभावधामा बहलीशनामा // 62 // अपारिजातोऽपि स पारिजातः सम्पूरयन्नर्थिगणे हितानि / अमन्दरागोऽपि च मन्दरागः स्थैर्येण किं भक्तजनैर्न दृष्टः // 63 // अमान्तमन्तःकरणेऽस्य शौर्यरसं किमादाय कृता विधात्रा। सुत्रामजैत्राद्भुतगात्रवीर्याः सहस्रशस्तस्य जयन्ति पुत्राः // 64 // एकोऽपि तेषां यदि युद्धरङ्गच्छेको रणेऽभ्यापतति प्रकोपात् / भेकोपमानाः क्षितिपास्तदानीं पलायनस्यैव कलां स्मरन्ति // 65 // चित्रं न यच्छत्ययमथिनेऽर्थं कराग्रजाग्रच्छतकोटिपद्मः / यत्त्यक्तकोशो द्विषतां ददाति खड्गेऽस्य दिव्यश्रियमद्भुतं तत्।। 66 / / तस्य प्रतापानलधूम एव चकास्ति साक्षादसितः कृपाणः / विपक्षभूभृन्मशकव्रजोऽस्मान्नो चेत् पलायेत कथं विषण्णः // 67 // अश्वव्रजोत्खातधरारजोभिर्नग्नो युधि प्रौढनिशान्धकारे। खड्गोऽस्य जैत्रं जपतीव मन्त्रं कृत्वाऽरितेजःकणवीरहोमम् / / 68 // . 255