________________ स्वैरं भनक्त्यप्रतिरुद्धदो महाबलोऽसावसुहृद्रुमौघान् / संक्षोभयत्येव मन:समुद्रं महीयसामप्युपजातकोपः // 45 // अमुष्य सच्चामरधारिणीव प्रदर्शयन्ती शुचिपक्षपातम्। कदापि सेवाक्षणरङ्गभङ्गभीत्येव नीतिर्न जहाति पार्श्वम् // 46 // अस्याननं लोचनलक्ष्मयुग्मं चन्द्रो द्विपक्षी विशदं यशश्च। भालं विशालं च तदर्धमत्र द्वासप्ततिस्तेन कला घटन्ते // 47 // सूत्रार्थभिन्ना नवतत्त्वविद्याश्चतुर्दशान्याश्च मयि स्फुरन्ति। उदन्तमन्तःस्थितदन्तरेखा दम्भादिदं सूचयतीदमास्यम् // 48 // अमानतदानजलप्रवाहे खलेत्यलं तस्य यशोमरालः / प्रत्यर्थिभूपालयशःप्रशस्तमुक्तागणग्रासवितीर्णकालः // 49 // भवत्यहीन्द्राननवाडवाग्निदिग्दन्तिदन्ताक्रमणात् त्रिलोक्याम् / / सतीव्रतं तीव्रतरं तदीयकीर्तेः परस्पर्शनिषेधशुद्धया // 50 // रविर्निशायां जलधौ निपत्य करोति मन्त्रं वडवानलेन / तेजोऽस्य जेतुं न दिने तु किञ्चित् स्मरत्यसौ छिद्रघटाभबुद्धिः॥ 51 मित्रं तदास्यस्य वेश्च पद्म मिथो महामत्सरवारणाय / ददाति किं गुञ्जदलिच्छलेन तदोजसस्तस्य च सन्धिजल्पम्॥ 52 // गुणास्तदीयाः शरदिन्दुशुभ्राश्चेतो जनानामिह रञ्जयन्ति / सा चातुरी काचन धातुरीहामन्वेतु नो वस्तुगतिं तु जातु // 53 // उद्वासयन्त्यन्यगुणांश्चिरस्थान् मनो जनानां प्रसभं हरन्ति। / तुदन्ति रोमोद्गमकण्टकैस्तानुच्छृङ्खला: केऽपि गुणास्तदीयाः॥५४ तद्रूपसौन्दर्यनिरूपणेन कन्दर्पदर्पस्तनुतामुपैति। . स्पर्धानुबन्धं हृदयेन धत्तो नूनं विनेयाविव चाश्विनेयौ // 55 // प्रत्यक्षतां गच्छति विश्ववृत्तं वातायनैस्तस्य महाशयस्य / दिग्देशकालव्यवधानवन्ध्यं धर्मप्रभावैरिव योगभाजः // 56 // 254