________________ न रञ्जितौ कैश्चरणौ मदीयौ स्वकीयकोटीरमणिप्रभाभिः / कैर्वा नरेन्द्रविहिता न मौलौ पुष्पस्रजाज्ञा मम सद्वितीया // 33 // किं नाम रत्नं रुचिरं धरित्र्यां मदीयकोशे न शयालु जातम् / काः सम्पदः पद्ममिवालिमाला न मामहम्पूर्विकया समीयुः॥ 34 // न के मदोत्क्षिप्तकरा: करीन्द्रा गर्जन्ति मे तर्जितहस्तिमालाः / अमूल्यतां बिभ्रति बिभ्रतः के न वाजिनो देवमणि विगाले // 35 // एकातपत्रीकृतसर्वभूमेरित्येवमत्यद्भुतसम्पदोऽपि / न वश्यतां यन्मम चक्रमेति दुनोति तच्छल्यमिवोग्रमन्तः // 36 // कृतौ स्फुटं लाघवमीक्षमाणैर्या नेष्यते न्यायबुधैरिदानीम् / न शाब्दिकानामिव कर्तरीयं मयि क्षमाऽऽख्यातपदप्रवृत्तिः // 37 // स्थानेन यावस्थितिमेति चक्र स्थानस्थितं स्यान्न मनोऽपि तावत् / द्वयोस्तदुच्छृङ्खलयोः खलोक्तिनियन्त्रणायां मम कोऽप्युपायः॥ 38 // संशोधिते चक्रिपदस्य हेतौ द्राक् कण्टकोद्धारविधिप्रयोगात् / वादीव चक्रं विमुखीभविष्णु के दोषमुत्पश्यति मेऽवशिष्टम् // 39 // संशेरते चेन्मम योग्यतायां चक्रामराश्चक्रिपदस्य शश्वत् / तद्दर्शयन्ते किममी प्रमीला-लीलाकृतः सङ्गररङ्गनाट्यम् // 40 // इत्यादिचिन्तातटिनीनिमग्नं भूपालभालस्थलरत्नमेनम् / समुद्दिधीर्षः प्रकटीचकार मन्त्री गिरं नावमिवानवद्याम् // 41 / / अवैमि राजेन्द्र ! चरैस्तवाज्ञां न मन्यते बाहुबली बलीयान् / भ्राता कनीयामधुनाऽपि चण्डदोर्दण्डवित्रासितविश्ववीरः // 42 // पृथ्व्यां प्रसिद्धाः कठिना गिरीन्द्रास्तद्दारि तेभ्यः कठिनं च वज्रम् / तच्चूर्णने जाग्रदखर्वगर्वा ततोऽपि कामं कठिनास्य मुष्टिः // 43 // अवैति शत्रुक्षितिपान् समग्रान् युक्तं मृगानेव स राजसिंहः / मुखे तृणं ग्राहयिता रणे तानरण्यवासं भयकम्प्रतां च // 44 // 253