________________ प्राचीनमार्गे स्वरसे न यातै रम्यावदातैर्गतपङ्कजातैः। तुङ्गैस्तरङ्गैरिव जाह्नवीयैस्तवानुजैस्त्वं सकुलोऽसि पूतः // 21 // मिथ्यात्ववैताढ्यगुहां तमिस्राग्रन्थिं प्रयत्नादुद्भिद्य सद्यः। प्रियाप्रियोन्मग्ननिमग्ननीरनदीद्वये निर्मितसेतुबन्धाः // 22 // उत्पातवृष्टौ प्रसभं कृतायां भावाहितायातकिरातदेवैः / रत्ने क्रियाज्ञानपवित्रचर्मच्छत्रे वितत्य श्रितसत्यसन्धाः / // 23 // अन्तःप्रकाशायततातपत्रदण्डे स्वमध्यात्तमणि नियोज्य / वेश्मापि रत्नद्वयमध्यगानां विस्मारयन्तो गुणनागराणाम् // 24 // उप्तैः प्रभाते परिपाकभाग्भिः सायं च वैराग्यगृहाधिपेन। . सम्पूर्यमाणैर्दिनकृत्यशस्यैर्निर्वाहयन्तः शुचिलोकवृत्तम् // 25 // जित्वा क्षणेनोत्तरखण्डनिष्ठान् म्लेच्छानशेषानपि मोहमुख्यान् / शत्रुर्न नः कोऽपि जगत्त्रयेऽस्तीत्यन्तलिखित्वर्षभकूटशैले // 26 // लब्ध्वा निधानानि नवापि तत्त्वान्याप्तोत्तमाज्ञासुरसिन्धुदेशे। जयन्ति सर्वे वशिताऽखिलाशाः सहोदरास्ते त्वमिव त्वदीयाः॥ 27 // तव प्रभुत्वे प्रविशन्त्विदानी बाह्यानि राज्यानि नरेन्द्र तेषाम् / चन्द्रोडुतेजांसि वेरिवाशु राशौ दिनादावुदये समे ते // 28 // श्रुत्वैतदातॊऽनुजविप्रयोगात् तद्राज्यलाभाच्च मुदं दधानः / सङ्कीर्णरूपो भरतेश्वरोऽभूच्छायातपाभ्यामिव भाद्रघस्रः // 29 // स जग्रसे तानि ततोऽनुजानां राज्यानि लीलाजितराजराजः / आजन्मभोगप्रदमस्तकर्म न च्छत्रमन्यं सहते धरित्र्याम् // 30 // तथापि चक्रं न कुतोऽपि हेतोविवेश तस्यायुधवेश्म चक्रम् / दृष्टव्यलीकं धृतनीतिसारमहो रहो धाम यथा सुमित्रम् // 31 // पूर्णप्रयत्ने विहितेऽपि चक्रे बहिश्चरेऽपायनिपातशङ्की। अलब्धसिद्धिर्महतीं तदानीं योगीव चिन्तां विततान चक्री // 32 // 252