________________ अष्टापदाद्रावधिरुह्य योगश्रेणी शिवाभ्यर्णमुपेयिवांसः / मूर्धानमेते नियतं सुमेरोरप्युन्नतं बिभ्रति भूभृदाः तीक्ष्णाग्रभाजा भरतोक्तिसूच्या, वेधेन सञ्जातगुणप्रवेशैः / एभिस्त्रिलोकीविभुवंशजातैः सम्भूय मुक्ताभिरलम्भि शोभा // 10 // भाग्यं दृशोदौत्यमिषादमीषामस्माकमाकस्मिकमाप पाकम् / आकण्ठमग्नेर्यदमू सुधायां बभुवतुर्वृत्तविलोकनेन . // 11 // सन्तापिताः स्वामिवचोऽनलोष्णमेते यदस्माभिरुदीरयद्भिः। संशोधयामस्तमिमं तु सन्तुमकृत्रिस्मैतद्गुणसंस्तवौघैः // 12 // न वेत्ति वक्तुं खलु नीचजिह्वा ब्रूते न सम्यग्गुणिनां गुणं या। तत्प्रत्यवायोपनताच्च साध्यमुत्पातवातान्मुखरत्वमस्याः // 13 // गुणग्रहेणैव विचिन्त्य वाचामाचारपूताः फलवज्जनित्वम् / भवन्ति सन्तः किल सिद्धशुद्धसारस्वताः केचन तत्प्रपञ्चे // 14 // अल्पो हि जल्पोऽन्यगुणे गुणित्वं सन्देहतल्पोपगतं तनोति / भूयो गुणानामुचितं तदेषामानन्दिबन्दिव्रतधारणं नः // 15 // इदं विमृश्य द्रुतमेत्य दूताः पुरीं विनीतां भरतं प्रणम्य / बभाषिरे चित्रकरं चरित्रं तेषामशेषाद्भुतभाग्यभाजाम् // 16 // नत्यर्थनायामनतिप्रतिज्ञा, रणेऽथिते ये चरणं प्रपन्नाः / वर्णाधिकं सर्वमकार्षुरुक्तं, वर्णाधिकादेव तवानुजास्ते // 17 // एतैरिदानीं पितुरात्तदीक्षैस्त्यक्तः समग्रोऽपि रमाधिकारः / सम्प्राप्तरत्नैरिव रोहणानेनिःस्वैः स्वमूर्धार्पितकाष्ठभारः // 18 // तैस्त्यक्तसङ्घृतयोगरङ्गैः कृतप्रसङ्गैः स्वगुणाधिकारे / विमुक्तशुक्लेतरपक्षचन्द्रनिस्तन्द्रतागर्वहरैर्बभूवे // 19 // सम्भावितं युद्धरसं ह्यमीभिः संहृत्य शान्तं हृदि दर्शयद्भिः / लब्वा पुरःस्फूर्तिकमर्थमन्यं काव्ये कवीन्द्रैरिव मोहिताः स्मः॥ 20 // 251