________________ हारप्रभा, पारावारतडागकूपतटिनीतोयैर्न या शोषिता, तामङ्गारकृतस्तृणं व दलयेदर्भाग्रजाग्रत्पयः / // 135 // तानत्युन्नतगर्वपर्वतभिदादम्भोलिभिर्भाषितैरित्थं विश्वविभुर्विबोध्य निखिलानग्राहयत् संयमम् / दिग्दन्तावलदं तदेव तटिनीमन्दारहारप्रभां, शौण्डीर्येण ततो यश:श्रियमिमें विश्वाद्भुतां लेभिरे // 136 // . तृतीयः सर्गः उदीक्ष्य तादात्विकमेतदेषां, चारित्रमाश्चर्यरसेऽवधूतैः / शिरोभिरुत्सारितदौत्यभारैर्व्यचिन्ति चित्ते भरतस्य दूतैः // 1 / अहो महासाहसमेतदेषां, लोकोत्तरं श्रीभरतानुजानाम्। . ये सेव्यतामेव ययुः प्रपन्नस्वतातमार्गा न तु सेवकत्वम् // 2 // येषां प्रवृत्तौ न रसो रणार्थमन्वग्रजन्मानमकीर्तिभीत्या / निवर्तमानोऽपि बभूव मोघो भावारिघातं प्रतिपर्यवस्यन् // 3 // अमूदृशाः केऽपि कठोरवीर्याः कण्ठीरवाः शुश्रुविरे न करें। अष्टापदे ये पदमाशु दत्त्वा प्रतापमायुर्दिनरत्नजैत्रम् // 4 // न क्रोधवडूर्यदमी रसेन्द्रा विचक्रिरे तातनिदेशवश्याः। नष्टापदष्टापदसिद्धियोग्यास्तेनैव युक्तं सहसा बभूवुः / // 5 // युक्तं त्रिलोकोपकृताममीषां क्रोधोऽपि बोधोन्मुखतां जगाम। उद्योतकृत्पाटलिमऽहिमाशोः प्रभातजातः किमुतालुलोके // 6 // आदाय तातानुमतिप्रतीक्षा संस्तम्भनीमौषधिमग्निशक्तेः / स्वात्मैव नामीभिरकार्षि गोत्रक्लेशानलानान्तु सहोदरोऽपि // 7 // स्वान्ते चिराद् दत्तपदः कथञ्चिद् विसंवंदनेकफले स्वभावात्।। अलम्भि न भ्रातरि किं प्रबुद्धैः क्रोधः खलस्नेहसमत्वमेभिः // 8 //