________________ th anthusias ...... अमी जनाः स्वामिसुखाय नेशते, यदन्नकाले द्रविणादिदायिनः। / विवेकनेत्रावरणत्वमीयुषी, ततः क्वचिद्भद्रकलाऽपि दोषभाग् 108 गुणान्वये भद्रकतातिशोभना, तमन्तरेणानुकरोत्यशोभना। .. सुधांशुयोगे रजनीं स्फुटोदयां, समुद्धतध्वान्तमयीं तदत्यये // 109 // फलं विना यामधिकार्पणादपि, स्थले जलं स्वादु यथा न लेभिरे। अमी समीहाविषयां सृजन्तु तां, सुपात्रदानैकविधेरभिज्ञताम्।। 110 // अलं परासङ्गतिचुम्बिचेतसा, कथं मयीदं घटतामिहागते। अभूयत स्वप्नमहीरुहैस्त्रिभिर्यदुद्गता स्वप्नमहीरुहाङ्कुरैः // 111 // ध्रुवोपकार्येऽप्युपकारिता विभोः, प्रदर्शिता स्वप्नगणेन या मयि / / क्व भेददृष्टौ घटतां विपर्ययादभेदसृष्टावपि सा द्वयागतेः // 112 // प्रभुप्रभावादथवा न दुर्घट, किमप्यदो भक्त्युचितप्रदो हि सः।। न नाम तद्दानकलास्वधीतिनो, मरुद्गवीकामघटामरद्रुमाः // 113 // कपालनाशात्कलशक्षये यथा, पुरातनन्यायमताभिमानिनाम्। विभोरथ स्वाङ्गणभूषणे तथा, क्षणं विलम्बोऽपि न मे प्ररोचते 114 असाविदं ध्यायति यावदात्मना, जगद्विभुस्तावदभूषयद् गृहम् / .. विनीतभृत्या नवमागतं घटैस्तदैव तत्रेक्षुरसं डुढौकिरे // 115 // प्रदेयचित्तस्वमनोविशुद्धतां, तदा त्रिवेणीमिलनोपमा विदन्। प्रकर्षिहर्षाश्रुभरप्लुतेक्षणो, जगत्प्रभुं भूपतिसूनुरूचिवान् // 116 // गृहाण भिक्षां गतदूषणामिमां, विमानवासिप्रणतांहिपङ्कजः। तवास्त्विदानी प्रसरत्करप्रभाभरैरिदं कुङ्कुमपङ्किलं नभः // 117 // इतीरिते भूमिभुजस्तनूभुवा, जगद्विभुर्दक्षिणहस्तमूचिवान् / त्वया यथा दानकलोपदर्शिता, प्रदर्शनीया ग्रहणेऽपि सा तथा।। 118 परोपकारार्थमधःस्थितिःकरान्न दातुरेतहि मनस्विगर्हिता। अधःस्थितैरेव फणाभृतां फणैर्वसुन्धरा भूरिधराधराधृता // 119 / 236