________________ विधाय वामं प्रति वाम्यवासनां, त्वया न हेयावसरौचिती निजा। रणे जयं ह्येष ददौ भवान् मुखं, चकार दानादुपशान्तनिःस्वताम् 120 गुणग्रहात् प्रेम मिथः समुल्लसेन्न दोषदृष्टिस्तु सुखाय कस्यचित् / विवादभाजोः करभामृताशिनोर्न क्लुप्तयुक्ति: कलहं व्यपोहति // 121 // इमां स शिक्षामुपलब्धवान् गुरोः, करोऽथ सद्यः प्रससार दक्षिणः / पयः पयोदः सरसीव धारया, ववर्ष तत्रेक्षुरसं नृपात्मभूः // 122 / / क्रमोच्चभूर्दातृमनो गिरेरिव, स्फुटेव तत्पुण्यपटी गृहच्छटा / शिखेव तत्कौशलवारिधेः पृथू, रराज धारैक्षुरसी विभोः करो। 123 // समुत्थितांहेः पुरुषोत्तमस्य खात्, सरित् पपातेत्युचितार्थवित्तदा / विभोः करोत्थेक्षुरसापगा ययौ, प्रवृद्धपूरेण किमूर्ध्वमम्बरम्॥ 124 // विभोः करस्थेक्षुरसं नभोलिहं, प्रवृद्धवेलोदधिशङ्कया विधुः / स्वतातबुद्धरमिलिष्यदञ्जसा, तदैव नामंस्यत चेद् घटोद्भवम्॥ 125 // विधोः सुधायां मधुरो रसः कियानिति स्वमाधुर्यगुणेन गर्वितः / विभोः करस्थेक्षुरसः शिखामिषात्, कुतूहली किं गग़नं स्म गाहते॥१२६।। मुदोचितं दास्यति यस्तपस्विने, क्रमप्रवर्धिष्णुफलं स लप्स्यते। इतीव तादृक् शिखया समन्वितः, प्रभोः करस्थेक्षुरसः स्म भाषते // 127 / / जिनेश्वरस्तेन रसेन पारणं, जगद्विपद्वारणमाद्यमातनोत् / समुल्ललासास्य तनुस्ततः प्लुताः, पयोधरेणाभिनवेन भूरिव॥ 128 // अभूद् विभोः शान्तरसः प्रसृत्वरस्ततो रसाद्भक्तिरसंस्तु दायिनः / तथा परेषां हृदि विस्मयाभिधो, रसो रसेनेति मृषा न लोकगीः।। 129 / / आघ्नन्सो द्राग् दुन्दुभीन् देवसङ्घाश्चेलोत्क्षेपं चापि गन्धाम्बुवर्षम् / श्रेयांसस्य व्यञ्जयामासुरुच्चैरातन्वाना वेश्मनि स्वीयहर्षम्॥ 130 // उज्जागरप्रशमसागरनाथदत्त सम्यक् कचं द्रवति किं शुचिधिष्ण्यसृष्टिः / आनन्दमेदुस्सुरैर्विहिता तदानी, श्रेयांसमूर्ध्नि निपपात च पुष्पवृष्टिः // 131 // 230