________________ अदस्तुलाभृत्परदेवगर्हणाप्यनर्हणामञ्चति काव्यशिल्पिना / विचारकृद् व्याहतिमीक्षतेऽत्र किं, न सिद्धयसिद्धयोः स्फुटनिग्रहस्थलाम् तपोनिधिः सत्यविधिश्चिदर्यमा, चरित्रचूडामणिरेष शाश्वतः / इति प्रतीतिर्यदि योग्यतां व्रजेदमुत्र वित्रासितभावशात्रवे // 97 / / अमूदृशं रूपमनुत्तरं पुरा, मया दृगातिथ्यमनायि तायिनः / अमू समूढामृतपानलालसे, कुतोऽन्यथादृष्ट इवात्र धावतः // 98 // अचिन्त्यशक्तिः कुरुते क्षणान्नवं, पुरातनं प्रेम दृगेव देवता / विनैव गोचककृतां व्यवस्थितं[ति] मनोरथं वाहयति स्वसम्मुखम् // 19 // विलोकनादेव गरीयसां गुरोर्बभूव मे क्षीरसमुद्रमज्जनम् / अमुद्रमुव्यञ्जितसंस्तवस्मृतेरथास्तु पीयूषपयोधिमग्नता // 100 // अपोहमूहं च किलास्य तन्वतो, गतस्य सम्मोहमिति क्षणं हृदा / स्ववासनानुद्भवयामिनीव्यये, बभूव जातिस्मरणारुणोदयः // 101 // स तेन पूर्वं जगदीशसंस्तवं, मुमुक्षुमार्गं च यथास्थितं विदन् / इदं हृदन्तर्निदधे नृपात्मभूविचित्रतत्कार्यचरित्रविस्मितः // 102 / / अवर्षि वर्ष विषमैः परीषहैरमोघधाराधरतुल्यकर्मणा / न बिन्दुरेकोऽप्यलगच्चयैरलं, समाधिसच्छत्रमिदं विभो ! स्तुमः 103 न संविदानोऽपि परीषहद्विषां, चमू जिगीषुर्विधिमाह भैक्षगम् / उदात्तशान्तत्वमिदं जगत्पतेः, समाधिहारेऽञ्चति नायकश्रियम् 104 स्वयं तपोभिः प्रबलैः प्रतप्यते, तनोति तापापहतिं च मादृशाम् / अयं गुणः किं जगृहे भवच्छिदा, सविद्युतः शान्तदवात् पयोमुचः // 105 // मदर्थसंरक्षितदानकौशलप्रजापरं कौशलमध्यजीगपत् / न संनिधौ वा व्यवधौ निजं जनं, विभुर्विभक्तव्यमपेक्ष्य वञ्चयेत्॥१०६।। अलक्षितस्वार्थगतिः प्रयत्नवानिहागतोऽसौ मम बोधिसिद्धये / रवीन्दुमेघोपमया महात्मनां, परोपकाराय विनिर्मितं जनुः // 107 / / 235