________________ मनस्विनाऽज्ञो यदि बोध्यते जनो, निजाशयं न क्षतिमेति तावता / कृपालता प्रत्युत तस्य पीनता, फलद्वयेनैकपदेऽधिगच्छति // 84 // गृहेषु सर्वोत्तममस्तु वस्तु नः, कृतार्थमंद्वियसेवनात् तव। गिरोत्तमर्णेन सुधां प्रदाय नस्त्वयाधमर्णत्वमपि व्युदस्यताम् // 85 // इति ब्रुवाणैर्मनुजैरितस्ततो. वृतं विनीतैरभिनीतिभक्तिभिः / मतङ्गजां मत्तमिवाभिसान्त्वने, सगर्वगन्धर्वकलाविलासिभिः॥ 86 / / निरीक्ष्य तं चेतसि स व्यचिन्तयत्, किमेष भास्वान् न स यत्प्रतप्तभाः। निशाकरः किं न स यत्कलङ्कवान्, सुरप्रभुः किं न स भूरिरन्ध्रदृग्८७ स्मरः किमङ्गी न स भस्मयद्भवक्रुधग्निजं तत्किमयं सुरद्रुमः / न सोऽपि यस्माद् मितकामितप्रदः, प्रदत्तविश्वामितमुद्गरस्त्वयम् // 88 // किमेष विष्णुर्न स यज्जनार्दनाभिधो हरः किं न स यन्महानटः / किमेष वेधा न हि सोऽपि यज्जगद्विनिर्मितौ व्याकुलधी: कुलालवत् किमेष मेरुन यतोऽतिकोमलो, महाद्विपः किं न यतो मदोज्झितः। तदेष चिन्तामणिरस्तु वस्तु सन्न चिन्तया यद्रहितो ह्ययं मणिः॥ 90 // बहिर्मह[:]किञ्चिदगोचरो गिरां, पटावृतस्येव महामणेरहो। अमुद्रितं स्फूर्जति मुद्रमास्य यत्, तदंशतः स्युः शतमंहि मालिनः / / 91 // विचार्यते स्वोपमिति स्थलं यथा, कथा समाये(ने)षु विशीर्यते तथा। व्रजन्ति बन्धं विशरारुधर्मकाः, करे गृहीताः सिकताः कियच्चिरम् // 92 // अमुष्य संशुद्धगुणाब्धिमक्षमो, विगाहितुं चित्तविचारणोडुपः / कलङ्कमुक्तं यदुशन्ति निष्कलं, तदेव धामेदमुदीतमादिमम् // 93 // बहिः प्लवन्तामिह भूरिकल्पनाः, स्पृशन्ति ता नास्य गुणं मनागपि। अनेकमायाजलचक्रचुम्बनाद्, रसो न गृह्येत हि तात्त्विकाम्बुनः।। 94 // अलक्षिताभ्यन्तरलक्षणः प्रभुर्बहिर्गुणैरेष तु तैर्न नूयते / पुरप्रतोलिपरिखादिवर्णने, न वर्णितः स्यात् खलु तत्त्वतो नृपः।। 95 // 234