________________ विशारदः शारदवारिदृप्ततानिवारिणीमाकलयन् प्रसन्नताम् / अनन्तपद्मः परिबिभ्रदुच्चकैरलेपतां पद्मदलातिशायिनीम् // 72 // अभीष्टभूयः सुमनोरसो व्रजन्, पुरात् पुरं भृङ्ग इवाब्जमब्जतः / पुरन्दरद्रङ्गमदोग्रताहरं, पुरं गजैकोपपदं व्यभूषयन् // 73 // स तत्र गत्वा रुचिरं गृहे, गृहे प्रदीयमानं द्रविणाद्यनाददत् / अकालकोलाहलसङ्कुलं नभो, न लाति ने[ते]ति जनैरकारयत् 74 विभोः सः हेलोद्दलिताघपर्वतव्रजोच्छलत्पुण्यमहापयोनिधेः / प्रवृद्धवेलोजितगजितभ्रमं, ततान संक्षोभितपौरयादसः // 75 // प्रवर्धमानं विनिरुद्धदिग्गणं, गुणं गुणित्वेन नभो बभार तम् / कथञ्चिदेवोपहितत्वमस्पृशन्, ममौ न स श्रोत्रशते तु देहिनाम्।। 76 // यशोनिधिः सोमयश:सुतोऽथ तं, निशम्य कर्णेन स कर्णपुङ्गवः / किमेतदित्याहितसम्भ्रमो निजं, नभोलिहं सौधगवाक्षमागतः // 77 // बुभुत्सुरेतस्य निदानमादितो, विनिक्षिपन्नक्षि विदिक्षु दिक्षु च / भ्रमन्तमन्तःकरणैः सहाङ्गिना, सम्भाग्यवन्तं भगवन्तमैक्षत // 78 // विना न हर्षाश्रुभिरक्षिवञ्चितं, मुखाम्बुजं नापि विकासमन्तरा / वपुर्विना नो पुलकावगुण्ठनं, कराद् ऋ(वृ)ते नाञ्जलिबन्धसन्धया // 79 // पदोः प्रमादोऽभिगतौ न निर्ममें, न च त्वयि स्वादुगिरोऽपि निर्ममे। धृता स लक्ष्म्या न निजा न तत्यजे, न ते नमोऽकारि न दुष्कृतत्यजे 80 अयं जनस्त्वां न च नोपतिष्ठते, स्वशक्तितो भानुमिवार्घपूजया। कथं तुंदेन्नानुचितं च कण्टकैस्तथाप्ययं ते भृतकाननुग्रहः // 81 // गृहाङ्गणं नो निजपादपङ्कजैस्त्वयाऽर्चयित्वा यदि नीतमर्च्यताम् / अशौचसम्भावनया प्रतिग्रहात्, तदा पुनस्तर्कमलम्भि चर्च्यताम् 82 अथापि पश्याभिमुखं मुखेन्दुना, दिवापि विश्राणित-कौमुदीमहः / अनाद्यप्रज्ञेषु निवेदिताशयो, भृशं भवास्मासु कृपापयोनिधिः // 83 // 233