________________ चिरान्निबद्धोरुजटैर्विनिर्मितप्रवालमूलाम्बुफलादिवृत्तिभिः / वियोगिभिस्तैरुपगङ्गमीदृशैः, स्थितं सरङ्गैरिव जङ्गमैर्दुमैः / / 60 // विनाऽपि तैविश्वविभुस्तु केवलः, सुरद्रुमः शेषमहीरुहैरिव / विदिद्युते सौरभमुगिरन् यशस्त्रिलोककुक्षिम्भरिपुण्यपुष्पितः।। 61 // ततान धूमायितमादिमस्तनौ, यदाकुलत्वात्त विभोः परीषहः / फलोदये ध्यापुरसालभूहस्तदा ययौ दोहदधूपधूमताम् // 62 // तनुं कृशीकृत्य हताणुसञ्चया, कया दिशा क्षुत्कृतमन्तुरीशितुः / यतस्तदा तैरणुभिः परिस्कृ(ष्कृ)तं, बभूव पुण्याङ्गममुष्य मेदुरम् 63 शशाक नैव क्षुदमुष्य बाधितुं, दिगम्बराशासहकृत्वरी धियम् / इमां विबाधेत हि मोहवासना, प्रभोर्बबाधे प्रतिसङ्ख्ययैव सा 64 छलादुरीर्थ(दीर्य)त्क्षुधमान्तरद्विषां, प्रति त्रिलोकीपतिमस्त्रमोचनम् / अधीरतापर्यवसायि नाभवन्, मनीषितस्फूर्तिमदात्मकीर्तये // 65 // प्रभोस्तितिक्षामुपवीक्ष्य तादृशीं, क्षुधाऽपि सम्यक्त्वमिवाध्यगम्यत / अरक्षि साक्षीकृतविश्वचक्षुषा क्षुधोऽनुबन्धः परतो न वत्सरात् / / 66 // अथ प्रभुः पारमहंस्यवासना-विशीर्णनिःशेषविकारसारधीः / भ्रमन्ननेकेषु कुलेष्वसम्भ्रमादनाप्तभैक्षप्रसरत्तपोबलः // 67 // विशिष्टपात्रप्रतिलम्भतो नृणां, प्रमोदबाष्पैर्दुतलोचनं पुरा / गृहाद् विनिर्यन्नकृतप्रतिग्रहस्ततश्च शोकाश्रुभिरिष्टवञ्चनात् // 68 // प्रतिग्रहेणानुगृहाण मेदिनी, परोपकाराद् विमुखोऽत्रं मा स्म भूः / जनस्य भक्त्या ललितालकच्छलादितीव कर्णान्तमुपेत्य शिक्षितः // 69 // दिदृक्षुरीर्यासमितिच्छलाद् रसातले प्रविष्टानपि कर्मवैरिणः / तपोऽर्चिषा भानुरिवातिदुस्सहो, जगद् दृगासेचनः (तः) सुधांशुवत् // 70 // दधत् परं सर्वसहिष्णुतागुणं, वसुन्धरातोऽपि वसुन्धरागुरुः / महानिलादप्रतिबन्धसन्धया, विशेषवान् नित्यवशीकृतानलः / / 71 // 232