________________ अहो परब्रह्मनिरुध्यमानसा, विनाशवृत्तिं स तदाऽन्वभूद् विभुः। इतीव कच्छप्रमुखास्ततः पृथग, बभूवुरध्वैति सतीर्थ्यतां गताः॥ 36 // द्विधाऽप्यभक्तैः प्रभुसङ्गवञ्चितैर्बुभुक्षितैस्तैव्रतमेव भक्षितम् / : जनावनं मुक्तिपथं विहाय ते, वनं भवाध्वानमिव प्रपेदिरे // 37 // व्यचिन्तयंश्चेदमहो तनोर्घनोपवासवासीभिरजस्रतक्षणम्। यथा मुनीनां व्रतरक्षणं तथा, न दुष्करं चित्तनिरोधलक्षणम् // 38 // विलीयते हन्त कदाचिदागता, परा विपत्तौष्टिक-शान्तिकादिभिः / सदापतत्क्षुद्विपदो निवारणं, न मूलमन्त्रादिकमस्ति किञ्चन // 39 // गुणा विवेकप्रमुखाः कुकर्मणा, बलीयसौन्दर्यहुताशने हुताः। कुकीर्तिमूर्तीर्दधतेऽत्र भस्मसाद्भविष्णवः कस्य न सञ्चरिष्णवः 40 सुवृत्तसङ्गीतमदान्धमानिनी, प्रणीतचेोविकृतिक्षुदुद्भवाः / क्रमाद् बलाढ्यास्तदयं कलाभृतः, कलावृतौ दर्शयतीव दर्शताम् 41 जगद्धितार्थं जलराशिसम्भवं, व्यधायि कण्ठे गरलं स्मरद्विषा। . न कोऽपि देवः स कृपालुरस्ति यः, समुद्धरेत् क्षुद्विषमङ्गसङ्गतम् 42 पुरं प्रविश्याक्षकपाटपाटनापुरस्सरं लुण्टितसारसम्पदः। . करोति यः क्षुत्कटकस्य निग्रहं, तमन्नदेवं समुपास्महे वयम् // 43 // ददाति यो नावसरेऽन्नमथिने, प्रदाह्य चिन्तासु परं प्ररोदयन् / स्वयं चितायां ज्वलतः स्वरोदकात्, स बद्धमुष्टिर्मतकाद् विशिष्यते 44 वनीपकानां भृतया यदाशया, यशः प्रसूते समयेऽन्नदायकः / समागतादेव गुणान्निदानतो भवेत्तदाशाभरणैकलोलुपम् // 45 // भवेन तुङ्गानतमूर्धनामिनी, व्यथोदरव्यन्तरनिर्मिता यदि। . किमर्थमर्थ्यन्त इमेऽतिभीषणाः, कृपाणतुल्याः कृपणास्तदा जनैः 46 अपि प्रबुद्धैरुदरार्थमर्थिभिः, समं धनान्धैः क्रियते दुरोदरम् / न हार्यमाणं छलपाशपातनाद्, वृथा सुवर्णं निजवृत्तमीक्ष्यते // 47 // 230