________________ प्रभूत्तमाङ्गस्थितिपावना स्म मा, पतन्निमे भूरजसीति भावयन् / धृतान् स्ववस्त्रे निदधौ पयोम्बुधौ, शचीपतिस्तेन विलुञ्चितान् कचान् असौ धृतध्यानसुखस्थिरासनो, जटावलीमण्डनमण्डितो बुधैः / अलक्ष्यताध्यात्मगुणैः फलेग्रहिर्लतान्वितः कोऽपि तपोमहीरुहः॥२५॥ अभूदसावुन्नतधर्ममेघभाग्, व्रतग्रहादादित एव किं विभुः। अयट्यमानामिति मूर्ध्नि तज्जटामुदीक्ष्य साक्षादुदनायि योगिभिः।।२६।। वृषाङ्कमेकं किल जाह्नवी श्रिता, श्रुतेति वार्ता सकलेऽपि मण्डले / वृषाङ्कमेनं किमु तज्जिगीषया, कलिन्दकन्याऽपि जटत्मनाऽभजत् समाधिसारैः समताकरग्रहे, न देहगेहे धवलीकृते किमु। . तदंसयोरुल्लसिता कचावलिः, परिस्फुरत्तोरणतामुपाययौ // 28 // व्रतोत्सवे कुन्तलसन्ततिर्विभोः, शिर:स्थिता कज्जलमञ्जुलप्रभा / स्वयं समुत्तीर्णनवोदधेः क्वचिद्विलग्नसेवाललता श्रियं दधौ // 29 // द्विषां दृशोरुग्रविषं शुभस्पृशां, शरीरिणामेणमदाञ्जनं घनम्। जयऽस्य रेजे बहुधूमधोरणी, तपः कृशानोर्दुरितद्रुधूमरी // 30 // बभूव रत्नत्रययोगतो व्रते, प्रभुर्घरत्नाच्चतुरश्चतुर्गुणः / / नृपः सहस्रैरिति युक्तमुत्तमैश्चतुर्गुणैरंशुभिरन्वगम्यत // 31 // अमी हि कच्छप्रमुखाः सुखासिकामविस्मरन्तः प्रथमं प्रसादजाम् / अथापि नः स्तात् प्रभुतुल्यशीलतालताफलप्राप्तिरिति व्रतं ललुः॥३२॥ अमी चतुर्मुष्टिकलोचमीशितुः पितुः प्रजानामनुचक्रिरे सुखम् / परीषहांहेर्जठरैकजन्मनो, विनिग्रहे नो गरुडायितं पुनः // 33 // रथाश्वकन्येभधनादिभिर्जनैर्न दीयमानैरुपयुक्तमीशितुः / सुद्धवदुर्लभदर्शनेऽत्र तैर्न च प्रतीता सुलभानपात्रता // 34 // अनेन मे वार्षिकदानवर्षिणा, न वास्तु वस्तुं भुवि किञ्चिदर्पितम्। इतीव भिक्षोपननाम नाम न, प्रभुं श्रितं भिक्षुदृशां समत्सरा // 35 // 229