________________ अबाधयानेन तथा परस्परं, त्रिवर्गसेवा विधिवद् व्यंधीयत / / यथाऽस्य सार्वत्रिकवैरवारिणः, स्वतोऽपवर्गोऽप्यनुकूलतां ययौ।। 12 // यथा यथा नीतिमतिं करोत्यसौ, भवत्यनीतिः पृथिवी तथा तथा। द्वयोविरोधः परिणामतश्च नेत्यपूर्वमेतत्प्रभुराज्यकौशलम् // 13 // प्रसिद्धजीवाभयदातृतागुणात्, ततो न भेजे धुसदां गुरुर्भयम्। कुतोऽन्यथा याति तदीयवाग्मितागुणाभिभूतः स न कान्दिशीकताम्॥१४॥ स्वकीयगाम्भीर्यहृतः पयोनिधिः, समुच्छलन् वीचिकशान्तताडनम्। अमुष्य सख्यं सृजतो मुखस्य किं, विधीः स्वसूनोर्न तनोति रोषणः॥१५॥ वदान्यभावादमुना विनिर्जितो, धुसन्मणिः स्वर्गिमहीरुहै: समम् / तथा व्यथामाप समुद्धृतां नतैर्यतो न दुःखं किल पञ्चभिः सह // 16 // असङ्ख्यकालार्जितदातृतायशो, हृतं क्षणात्तेन वदान्यमौलिना। न सङ्ख्ययैव व्यथयाऽपि पञ्चतामजीगणन् स्वामिति कल्पभूरुहाः न वेदना मे जनटङ्कदारणादिति प्रभौ दातरि रोहणोऽहषत् / विभज्य दद्यादयमथिने न मामिति स्वतः स्वर्णगिरिस्त्वकम्पत // 18 // हरिः कणेहत्य निपीत-तद्वचः, सुधां तृणायापि न मन्यते बुधः / अतः कथं तत्र सुधा सुधावता, रसेन साम्यं ननु सङ्गतं भवेत्॥ 19 // व्रतं जिघृक्षु (क्षो)-र्भरतादिभूभुजां, कलाः पराः सादित-साधुचन्द्रमाः। ददाति या मूर्ध्नि पदं भवस्य सा कला किलैकाभिमतास्य योगिनः॥२०॥ शते सुतानां चिरकालमुद्धृतो, विभज्य दत्तोऽप्यमुना क्षमाभरः / व्रते ततो नापचकर्ष स क्षणं, महाद्भुतं प्रत्युत वृद्धिमाप्तवान्॥ 21 // कचच्छलाद् मुष्टिचतुष्टयाद्भवान्, विलुञ्चतु द्राक् चतुरः क्रुधादिकान् / न पञ्चमी मुष्टिरतिप्रयोजनेऽत्यरक्षदिन्द्रार्थनया नया सताम् // 22 // व्रतत्रपा मूर्ध्नि न केवलं निजा, महात्मभिर्भक्तकृपाऽपि धार्यते। सुरोपरोधादिति रक्षितालका, जगाविदं मुष्टिसमस्यया विभुः // 23 // 228