________________ // आर्षभीयचरित-महाकाव्यम् // -: प्रथमः सर्गः:श्रुतस्थितेर्यः कमलालयो यशः पुपोष विश्वे वृषभासनोचितः / तम:प्रमाथी पुरुषोत्तमः शुचिर्महेश्वरः पातु स नाभिनन्दनः // 1 / / स एव देवः किल भिन्ननामभिर्विविच्य लोकैस्समुपास्यते सदा / पृथक्पृथक्तस्य फलार्पणे पुनः सहायतामञ्चति वासनाभिदा // 2 // तदागमाब्धेरुपजीव्य जीवनं परेऽपि गर्जन्ति घनाघना इव / तदीयवृष्टेरपि भूमिभेदतो विचित्रशस्योदयसम्पदीक्ष्यते // 3 // जगत्यशेषस्तदुपज्ञमज्ञता निरासकृद्धर्मविधिः प्रवर्तते / न शार्वरध्वान्तहरं विना रवेरवेक्ष्यतेऽन्यस्य महोमहोदयम् // 4 // मरुत्प्रियो रुद्धमरुत्पथोऽपि स क्षमाधनोऽपि प्रथितोऽपरिग्रहः / घनाघनाशोऽपि जलाशयोज्झितो, न चिन्तनीयं चरितं महात्मनाम्।। 5 / / अधः सुधाकुण्डगणं सुरापगां यदूर्ध्वमन्वेति च तिर्यगम्बुधीन् / वितृष्णभावोदितमप्यदो यशः, सतृष्णमत्यद्भुतमातनोति तत् // 6 // न जातु कोपात्कुटिलीकृते ध्रुवौ, शरासने नैव शिरो न्यधीयत / स्वशक्तिमोघीकृतशेषसाधनः, प्रताप एवास्य ततान दिग्जयम् / / 7 / / ग्रहेषु भास्वानिव कान्तिसम्पदा, सदाशयो युग्मिषु सर्वतोऽधिकः / प्रजाहितार्थं कृतसारसङ्ग्रहो, बभूव भूमान् भरते स आदिमः // 8 // सदा सुपर्वोल्लसितां घनाप्सरोविलासपूर्णाममरावतीमिव / जनैविनीतैः कृतसूनृताह्वयां, पुरीं विनीतामयमन्वशाद् विभुः // 9 // धनस्य पूत्तौ धनदः प्रदत्तदृक्, सदाऽस्य दास्य-स्थिर एव वासवः / दिशामभूवन्नधिपाश्च रक्षका न लक्षकार्येष्वपि ये प्रमद्वराः // 10 // असङ्ख्यशक्तेस्त्रिजगद्विभोः कियत्, त्रिशक्तियुक्तत्वमुखेन वर्णनम् / गुणैरनन्तैः सहितस्य तस्य च, स्तुतिन षाड्गुण्यमुदीर्य पूर्यते॥ 11 // .. 227