________________ कनकरजतरत्नसालत्रये देशनां तन्वतो, . ध्वस्तसंसार तीर्थेशवार ! धुसद्धोरणीनत ! वर ! विभयाऽसमानस्य रुच्याङ्गहारा, हिते पारिजातस्य भास्वर ! महे लास्यभारोचिते वचनमुचितमर्हतः संश्रय श्रेयसे प्रीणयद् भव्य ! भीमे दधद् ध्वस्ततापं भवाम्भोनिधौ परमतरणहेतुलाभं गुरावार्यमानन्दिता ऽपायशोभावतो भासमानस्य माराजितम् / दलितजगदसद्ग्रहं हेतुदृष्टान्तनिष्पिष्टसन्देहसन्दोहमद्रोह ! निर्मोह ! नि:शेषितापरमतरण ! हेऽतुलाभङ्गुरावार्यमानं दिता !, पायशोभावतो भाऽसमानस्य माराजितम् अहमहमिकया समाराद्धमुत्कण्ठितायाः, क्षणे वाङ्मयस्वामिनी शक्तिमह्नाय दद्यात्तरां सकलकलशता. रमाराजिता पापहाने, कलाभा स्थिताऽसद्विपक्षे मराले वार्यागमम् / दधतमिह सतां दिशन्ती सदैङ्कारविस्फार, सारस्वतध्यानदृष्टा स्वयं मङ्गलं तन्वती सकलकलशताऽरमाऽऽराजितापापहाऽने-, कलाभास्थिता सद्विपक्षेऽमरालेरवार्याऽऽगमम् - // 3 // // 4 // . अथ प्रशस्तिः यस्यासन् गुरवोऽत्र जीतविजयाः प्राज्ञा प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयाः प्राज्ञाश्च विद्याप्रदाः / प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः सोयं न्यायविशारदः स्म तनुते विज्ञः स्तुतीरर्हताम् 214