________________ // 2 // या मायामानही भवविभवविदां सास विश्वासविश्वाऽनाप्तानाप्ताभिशङ्का विमदविमदनत्राऽसमोहाऽसमोहा गौरागौरातिकीर्तेः परमपरमतहासविश्वासविश्वादेया देयान् मुदं मे जनितजनितनूभावतारावतारा / लोकालोकार्थवेत्तुर्नयविनयविधव्यासमानासमानाऽभङ्गाऽभङ्गानुयोगा सुगमसुगमयुक् प्राकृतालङ्कृताऽलम् // 3 // लोके लोकेशनुत्या सुरससुरसभां रञ्जयन्ती जयन्ती, व्यूहं व्यूहं रिपूणां जनभजनभवद्गौरवा मारवामा / कान्ता कान्ताहिपस्येरितदुरितदुरन्ताहितानां हितानां, दद्यादद्यालिमुच्चैरुचितरुचितमा संस्तवे च स्तवे च // 4 // 24 श्रीमहावीरजिनस्तुतयः तव जिनवर ! तस्य बद्ध्वा रति योगमार्ग, भजेयं महावीर ! पाथोधिगम्भीरं ! धीरानिशं . मुदित ! विभव ! सन्निधानेऽसमोहस्य सिद्धार्थ -नामक्षमाभृत्कुमारापहेयस्य वाचा रतः / मुनिजननिकरश्चरित्रे पवित्रे परिक्षीणकर्मा, स्फुरद्ज्ञानभाक् सिद्धिशर्माणि लेभेतरामुदितविभवसन्निधानेऽसमोहस्य सिद्धार्थ !, . नाम क्षमाभृत् कुमारापहे यस्य वाऽऽचारतः नयकमलविकासने का सुरी विस्मयस्मेर, नेत्राऽजनिप्रौढभामण्डलस्य क्षतध्वान्त ! हे, न तव रविभया समानस्य रुच्याङ्गहाराहितेऽपारिजातस्य भास्वन्महेलास्यभारोचिते / 213 // 1 //