________________ // 2 // 22 श्रीनेमिजिनस्तुतयः त्वं येनाक्षतधीरिमा गुणनिधिः प्रेम्णा वितन्वन् सदा, नेमेऽकान्त ! महामना ! विलसतां राजीमतीरागतः / कुर्यास्तस्य शिवं शिवाङ्गज ! भवाम्भोधौ न सौभाग्यभाग, नेमे ! कान्तमहामनाविल ! सतां राजीमतीरागतः . जीयासुर्जिनपुङ्गवा जगति ते राज्यधिषु प्रोल्लसद्धामानेकपराजितासुं विभयाऽसन्नाभिरामोदिताः / योधालीभिरुदित्वरा न गणिता यैः स्फातयः प्रस्फुरद्धामानेकपराऽजितासु विभया सन्नाभिरामोदिताः या गङ्गेव जनस्य पङ्कमखिलं पूता हरत्यञ्जसा, भारत्यागमसङ्गता नयतताऽमायाचिता साधुना। अध्येतुं गुरुसन्निधौ मतिमता कर्तुं सतां जन्मभीभारत्यागमसंगता न यततामायाचिता साऽधुना व्योम स्फारविमानतूरनिनदैः श्रीनेमिभक्तं जनं, प्रत्यक्षामरसालपादपरतां वाचालयन्ती हितम् / दद्यान्नित्यमिताऽऽम्रलुम्बिलतिकाविभ्राजिहस्ताऽहि तं, प्रत्यक्षामरसालपादपरताऽम्बा चालयन्तीहितम् 23 श्रीपार्श्वजिनस्तुतयः / सौधे सौधे रसे स्वे रुचिररुचिरया हारिलेखारिलेखा, पायं पायं निरस्ताघनयघनयशो यस्य नाथस्य नाथ / पार्था पार्श्व तमोद्रौ तमहतमह ! न क्षोभजालं भजाऽलं, . कामं कामं जयन्तं मधुरमधुरमाभाजनत्वं जन ! त्वम् तीर्थे तीर्थेशराजी भवतु भवतुदऽस्तारिभीमारिभीमालीकालीकालकूटाऽकलितकलितयोल्लासमूहे समूहे। 212 // 4 // // 1