________________ वितरतु वाञ्छितं कनकरुग् भुवि गौर्ययशोहृदिततमा महाशुभविनोदिविमानवताम् / रिपुमदनाशिनी विलसिंतेन मुदं ददती हृदि ततमामहाऽऽशु भविनो दिवि मानवताम् // 4 // 21 श्रीनमिजिनस्तुतयः // 1 // // 2 // यतो यान्ति क्षिप्रं नमिरघवने नात्र तनुते विभावर्योऽनाशकमनलसमानं दितमदः / दधद् भासां चक्रं रविकरसमूहादिव महाविभावर्यो नाशं कमनलसमानन्दितमदः भवोद्भूतं भिन्द्यात् भुवि भवभृतां भव्यमहिता जिनानामायासं चरणमुदिताऽऽली करचितम्। . शरण्यानां पुण्या त्रिभुवनहितानामुपचिताजिनानामायासंचरणमुदितालीकरचितम् जिनानां सिद्धान्तश्चरणपटु कुर्यान् मम मनोऽपराभूतिर्लोके शमहितपदानामविरतम् / / यतः स्याच्चक्रित्वत्रिदशविभुताद्या भवभृतां . * परा भूतिर्लोकेशमहितपदानामविरतम् / गजव्यालव्याघ्रानलजलसमिबन्धनरुजोऽगदाऽक्षाऽऽली काली नयमवति विश्वाऽसमहिता। जनैर्विश्वध्येया विघटयतु देवी करलसद्गदाक्षाऽलीकाऽलीनयमवति विश्वासमहिता // 4 // ... 211