________________ 19 श्रीमल्लिजिनस्तुतयः महोदयं प्रवितनु मल्लिनाथ ! मेऽघनाघ ! नोदितपरमोहमान ! सः। ' अभूर्महाव्रतघनकाननेषु यो घनाघनोऽदितपरमोहमानसः . // 1 // मुनीश्वरैः स्मृत कुरु सौख्यमर्हतां सदानतामर ! समुदाय ! शोभितः / घनैर्गुणै र्जगति विशेषयन् श्रिया सदानतामरस ! मुंदा यशोऽभितः॥२॥ जिनः स्म यं पठितमनेकयोगिभिर्मुदा रसं गतमपरागमाह तम् / सदागमं शिवसुखदं स्तुवेतरामुदारसंगद्रमपरागमाहतम् // 3 // तनोतु गी: समयरुचि सतामनाविला सभा गवि कृतधीरतापदा। शुचिद्युतिः पटुरणदच्छकच्छपी विलासभागविकृतधीरतापदा // 4 // 20 श्रीमुनिसुव्रतजिनस्तुतयः तव मुनिसुव्रत ! क्रमयुगं ननु कः प्रतिभावनघन ! रोहितं नमति मानितमोहरणम् / नतसुरमौलिरत्नविभया विनयेन विभावनघ ! नरो हितं न मतिमानितमोहरणम् अवति जगन्ति याशु भवती मयि पारगतावलि ! तरसेहितानि सुरवारसभाजितया / दिशतु गिरा निरस्तमदना रमणीहसिताऽवलितरसे हितानि सुरवा रसभाजि तया यतिभिरधीतमहितमतं नयवज्रहताघनगमभङ्गमानमरणैरनुयोगभृतम् / अतिहितहेतुतां दधदपास्तभवं रहितं घनगमभङ्गमानम रणैरनु योगभृतम् // 2 // // 3 // 210