________________ रङ्गद्भङ्गप्रसङ्गोल्लसदसमनये निर्मितानङ्गभङ्गस्वादेश ! स्तादऽरातिक्षतशुचिसदने कान्त ! सिद्धान्तरागः // 3 // वाग्देवि ! प्रीणयन्ती पटु विविधनयोनीतशास्त्रार्थनिष्ठा- .. शङ्कान्ते देहि नव्येरितरणकुशले ! सुभ्र ! वादे विशिष्टम् / श्रद्धाभाजां प्रसादं सुमतिकुमुदिनीचन्द्रकान्ति प्रपूर्णाशं कान्ते ! देहिनव्येऽरितरणकुशले सुध्रुवा देवि ! शिष्टम् // 4 // V 13 श्रीविमलजिनस्तुतयः नमो हतरणायते ! ऽसमदमाय ! पुण्याशयासभाजित ! विभासुरैर्विमल ! विश्वमारक्षते / न मोहतरणाय ते समदमाय ! पुण्याशयाऽसभाजितविभासुरैर्विमलविश्वमारक्षते ! महाय तरसाहिताऽजगति बोधिदानामहो दया भवतुदां तताऽसकलहाऽसमानाऽभया। महायतरसा हिता जगति वोऽधिदाना महोदया भवतु दान्तताऽसकलहाऽसमानाऽऽभया क्रियादरमनन्तरागततयाचितं वैभवं / मतं समुदितं सदा शमवताऽभवेनोदितम् / क्रियादरमनन्तरागततया चितं वैभवं मतं समुदितं सदाशमवता भवे नो दितम् प्रभा वितरतादरं सुरभियाततारोहिणीहिताऽशुगुरु चाऽपराजितकराशमारोचिता। . प्रभावितरताऽऽदरं सुरभियाऽतता रोहिणी हिताऽऽशु गुरुचापराजितकरा शमारोचिता 206 // 3 // // 4 //